________________
[३७७
चतुर्दशः सर्गः]
अथ सारथिनाऽभाषि, देवताऽऽतिथ्यकृते तव । उग्रसेनोऽग्रहीज्जीवान् , जल-स्थल-नभश्चरान् ॥७७।। तत् सर्वेऽपि कृपाकान्त !, वाटकान्तः स्थिता अमी । तन्वते तुमुलं प्राणभयं येन महाभयम् ॥७८॥ तदुवाच यदुस्वामी, यत्रामी सन्ति जन्तवः । स्यन्दनं नय तत्रामुमित्यकार्षीच्च सारथिः ॥७९॥ अथ व्यलोकि दीनास्यैः, प्राणिभिर्वध्यतां गतैः । स्वोक्त्या रक्षेति जल्पद्भिः, पितेव तनुजैः प्रभुः ॥८०॥ करुणाकरिणीकेलिकाननेनाथ नेमिना । अमी सर्वेऽप्यमोच्यन्त, जवादादिश्य सारथिम् ॥८१॥ मुक्तेषु तेषु जीवेषु , करुणावीचिवाधिना । स्यन्दनो जगतां पत्या, प्रत्यावासमचाल्यत ॥८२।। शिवा समुद्रविजयः, कृष्ण-रामादयोऽप्यथ । स्वस्वयानं समुत्सृज्य, श्रीमन्नेमिनमभ्यगुः ॥८३।। ततो नेमिनमूचाते, पितरौ साश्रुलोचनौ । त्वया जात ! किमारब्धमिदं नः प्रतिलोमिकम् ? ॥८४।। प्रभुः प्राह मयाऽऽरब्धमेतद्विश्वानुकूलिकम् । पशुवन्नोचयिष्यामि, यद् युष्मान् स्वं च बन्धनात् ॥८५।। तदाकाथ मूर्छालौ, पितरौ पेततुः क्षितौ । चन्दनादिभिराश्वास्य, कृष्णस्तौ नेमिमभ्यधात् ॥८६।। धिक् ! ते विवेकितामेतां, पशूनप्यनुकम्पसे । दोदूयसे पुनर्मातृ-पितृ-बन्धु-सुहृज्जनान् ॥८७।। "ततोऽभ्यधात् प्रभुः कृष्ण !, नोक्तं युक्तमिदं त्वया । विचार चिरं बन्धो !, निर्बन्धस्याऽऽयतिं मम ॥८८॥
१. न्तधृता सं० ॥ २. °भ्ययुः खंता० ॥ ३. °मेतान् , पशू खंता० ॥ ४. त् पुनः कृ खंता० ॥
D:\maha-k.pm5\2nd proof