________________
३७६]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मदनद्विरदालनमणिस्तम्भानुकारिणा । भालस्थलस्थकाश्मीरतिलकेन विभूषिता ॥६४॥ समारूढरति-प्रीतिप्रियशैलूषशालिना । भ्रूरज्जुसज्जितेनोच्चै सावंशेन भासुरा ॥६५॥ दृग्भ्यां योग्याकृते क्षिप्तः, कर्णकोटरमध्यगैः । विशिखैरिव राजन्ती, कटाक्षेतॄतपातिभिः ॥६६।। अन्तर्भित्तिसदृग्नासाविभक्तौ मणिभासुरौ । कपोलौ बिभ्रती कामप्रेयस्योर्वासवेश्मवत् ॥६७|| आस्येन्दुना निपीतस्य, शशाङ्कयशसोऽधिकान् । उद्गारानिव तन्वाना, स्मितदन्तद्युतिच्छलात् ॥६८।। प्रियानुरागं चित्तान्तरमान्तमिव निर्भरम् । उद्भ्रान्तमधरच्छायाच्छद्मना दधती मुखे ॥६९।। क्रष्टुं नाभीहृदादीशदग्धं मग्नमिव स्मरम् । दाम्नेवास्येन्दमुक्तेन, मुक्ताहारेण हारिणी ॥७०॥ दधाना मेखलारत्नं, दीपरूपमिव स्मरम् । उद्यत्कज्जललेखाभरोमराजिविराजितम् ॥७१॥ पादाभ्यामङ्गलिश्रेणिशोणितक्षोणिमण्डला । तर्जयन्तीव पद्मानि, मणिनूपुरसिञ्जितैः ॥७२।। हर्षपीयूषवर्षेणोद्भिन्नरोमाङ्करोत्करा । साऽऽरुरोह वरारोहा, गवाक्षं वीक्षिता जनैः ॥७३॥ द्वादशभिः कुलकम् ॥ विश्वातिशायिसौभाग्य-भाग्य-लावण्यसम्पदम् । पिबन्ती निर्निमेषाक्षी, सा देवीभूयमन्वभूत् ॥७४|| विवोढुमप्युपायान्तं, सा तं वीक्ष्य व्यचिन्तयत् । एतत्पाणिग्रहे योग्यं, भाग्यं किं मे भविष्यति ? ॥७५।। इतश्चाऽऽकर्णयन् नानाजीवानां करुणं रखम् ।
जानन्नपि जिनोऽपृच्छत् , किमेतदिति सारथिम् ॥७६।। १. अयं श्लोक: वता० नास्ति ।। २. भवेदिति खंता० सं० ॥ ३. °रुणारवम् खंता० सं० ॥
20
D:\maha-k.pm5\2nd proof