________________
चतुर्दश: सर्ग: ]
ततः कृष्णेन विज्ञप्तः, समुद्रविजयो नृपः । विवाहलग्नमासन्नं, पृष्टवान् क्रोष्टुकिं तदा ॥५१॥ दत्तेऽथ श्रावणश्वेतषष्ठ्यां क्रोष्टुकिना दिने । उग्रसेन-समुद्रोर्वीनाथौ तूर्णमसज्जताम् ॥५२॥ अथ पाणिग्रहासन्नदिने नेमिं यदुस्त्रियः । प्राङ्मुखं स्थापयामासुस्तारप्रारब्धगीतयः ॥५३॥ तमस्नपयतां प्रीत्या, राम - दामोदरौ स्वयम् । बद्धप्रतिसरं नेमिप्रभुं नाराचधारिणम् ॥५४॥ अगाधथोग्रसेनस्य, निकेतं तार्क्ष्यकेतनः । स्वयं तद्विधिना राजीमतीमप्यध्यवासयत् ॥५५॥ अथाऽऽगत्य गृहं विष्णुरिमां निर्वाह्य शर्वरीम् । मुदा संवाहयामास, विवाहाय, जगद्गुरुम् ॥५६॥ अथ श्वेतांशुवल्लोकदृक्कैरवविकासकः । श्रीनेमिः स्वेतशृङ्गारः, श्वेताश्वं रथमास्थितः ॥५७॥ तूर्यनिर्घोषसंहूतपुरुहूतवधूजनः । बन्दिवृन्दमुखोन्मुक्तैः, सूक्तैर्मुखरिताम्बरः ॥५८॥ गीयमानगुणग्रामो, हृष्टैर्बन्धुवधूजनैः । कामं जामिसमूहेन, क्रियमाणावतारणः ॥५९॥ समं समग्रैर्यदुभिर्यदुनारीभिरप्यथ । उग्रसेनगृहासन्नो, जगाम जगदीश्वरः ||६० || कलापकम् ॥ वयस्याभिरभिप्रायविद्भिः सा प्रेरिता ततः । गवाक्षमाययौ राजीमती नेमिदिदृक्षया ॥ ६१ ॥ आयाति विश्वमालिन्यभिदि नेमौ भयाद् गतम् । पश्चाल्लक्ष्मेव वक्त्रेन्दोर्दधाना कबरीभरम् ॥६२॥
सीमन्तसीम्नि बिभ्राणा, मुक्तास्तबकमद्भुतम् । लावण्याम्भोधिसम्भूतनवनिर्लाञ्छनेन्दुवत् ॥६३॥ १. 'तपुरीजनः खंता० सं० ॥ २. कुलकम् वा० ॥
D:\maha-k.pm5\ 2nd proof
"
[ ३७५
5
10
15
20
25