________________
३७४]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथाऽऽह रुक्मिणी नेमिनाथं मधुरया गिरा । अहं किञ्चन वच्मि त्वां, देवरं देव ! रञ्जिता ॥३७॥ जितं बलेन कान्त्या च, केशवं बान्धवं जय । विधाय बद्धसम्बन्धमवरोधवधूजनम् ॥३८॥ श्रीनाभेयादयस्तीर्थकराः के न मुमुक्षवः ? । परिणीय समुत्पन्नसूनवो दधिरे व्रतम् ॥३९॥ त्वमप्यतो विवाहेन, पितृ-भ्रातृ-सृहज्जनम् । आनन्दय दयासार !, दयास्थानमिदं महत् ॥४०॥ इत्युक्त्वा रुक्मिणी सत्यभामाप्रभृतिभिः सह । पपात पादयोर्नेमेः, पाणौ दीन इवालगत् ॥४२॥ अन्येऽपि यदवः सर्वे, विवाहे विहिताग्रहाः । बभूवुर्नेमिनाथस्य, पुरः पटुचटूक्तयः ॥४३॥ स्त्रिय एता अमी मूढास्तदेषामित्थमाग्रहे । कालनिर्गमनं कर्तुं , युक्तं वचनमाननम् ॥४४॥ कदाचिदपि लप्स्येऽहमिहार्थे सन्धिदूषणम् । ध्यात्वेदमोमिति प्रोचे, श्रीनेमिस्तानमोदयत् ॥४५।। शिवा-समुद्रविजयौ, तत्कथाकथके नरे । दातुं नापश्यतां वस्तु , राज्येऽप्यानन्दमानतः ॥४६॥ स्वबन्धोरुचितां कन्यामन्विष्यन्नथ केशवः । अभाषि भामयाऽऽस्ते यन्मम राजीमती स्वसा ॥४७।। हरिः स्मृत्वाऽथ तां स्मित्वा, ययौ यदु-बलैः समम् । निवासमुग्रसेनस्य, नभोदेशमिवांशुमान् ॥४८॥ अभ्युत्थायोग्रसेनोऽपि, विष्वक्सेनं ससम्भ्रमः । भद्रपीठे निवेश्याग्रे, तस्थावादेशलालसः ॥४९।। याचितो नेमये राजीमती कृष्णेन स स्वयम् । तथेति प्रतिपद्याथ, सच्चक्रे चक्रिणं मुदा ॥५०॥
D:\maha-k.pm5\2nd proof