________________
[३७३
चतुर्दशः सर्गः]
गौराङ्गीषु च खेलन्तौ, सहेलं हरि-नेमिनौ । चञ्चच्चम्पकमालासु , भेजाते भ्रमराविव ॥२४॥ स्त्रीणां नितम्बसम्बन्धवृद्धाम्बुपिहिताम्बुजे । मुखाम्बुजेषु भृङ्गाणां, दृशः सरसि बभ्रमुः ॥२५।। स्वस्तनप्रतिमां वीक्ष्य, धावत्यूर्मों मृगीदृशः ।। हरिं भेजुर्भयादम्भ:कुम्भिकुम्भस्थलभ्रमात् ॥२६॥ लोलदम्भोरुहकरै, रसवद्भिस्तरङ्गकैः । निपत्य चपलैः कान्तवक्षोजेषु व्यलीयत ॥२७॥ जलयन्त्रोज्झितं नीरं, मुहुर्मार्जयतः करात् । सङ्क्रान्तमिव रागेण, तदा नेत्रेषु योषिताम् ॥२८।। स्त्रीणां तदा कराघातैर्जले गर्जति मेघवत् । नृत्ताग्रीष्ममपि प्रावृट्कालयन्ति स्म केकिनः ॥२९।। मनोमुदे वरं मुक्त्वा , देवरं प्रति नेमिनम् । तास्ततश्चक्रिरे नीरप्रपञ्चं नर्मकर्मठाः ॥३०॥ करोद्भूतैरपां पूरैरथ तासां निरन्तरैः । तदा न विव्यथे नेमिरब्दमुक्तैरिवाचलः ॥३१॥ समन्ततः समं ताभिः, कृतप्रतिकृतौ कृती । चिक्रीड नेमिनाथोऽपि, तदा पाथोभिरद्भुतम् ॥३२॥ इति खेलन्तमालोक्य, तदानीं नेमिनं मुदा । कृतार्थीकृतदृक् तस्थौ, चिरं पयसि केशवः ॥३३॥ निर्गत्य सरसस्तीरे, तदा तस्थुः ससम्मदाः । अब्देव्य इव देदीप्यमाना माधवयोषितः ॥३४॥ अथ निःसृत्य दन्तीव, नेमिनाथोऽपि पल्वलात् । लताभिरिव कान्ताभिस्ताभिर्व्याप्ते पदे ययौ ॥३५।। प्रहृष्टा रुक्मिणी रुक्मपीठे नेमिं न्यवेशयत् ।
वाससा दाससामान्यमङ्गे चास्य मृजां व्यधात् ॥३६॥ १. खाम्भोजे° खंता० सं० ॥ २. जुर्भिया द्वा:स्थकु सं० ॥
D:\maha-k.pm5\2nd proof