________________
चतुर्दशः सर्गः ॥ खेलन्नितोऽपि शैवेयः, कृष्णायुधगृहं गतः । यामिकेन निषिद्धोऽपि, पाञ्चजन्यं करेऽकरोत् ॥१॥ शङ्खमादाय हंसायमानमाननपङ्कजे । नेमिर्दध्मौ दृढध्वानबधिरीकृतविष्टपः ॥२॥ चुचुम्ब मत्सुतं शङ्ख, विश्वस्वामीति हर्षतः । वीचीहस्तैर्ननाब्धिस्तेन ध्वानेन विस्तृतैः ॥३।। दध्मौ मदधिकप्राणः, क: कम्बुमिति चिन्तयन् । कृष्णः शस्त्रगृहारक्षैविज्ञप्तो नेमिविक्रमम् ॥४॥ अथाऽऽगतं पुरो नेमि, प्रीतः प्राह जनार्दनः । निजं भुजबलं भ्रातर्मम युद्धेन दर्शय ॥५॥ जगादाथ जगन्नाथो, युक्तो नैव रणोत्सवः । बाहुवल्लिविनामेन, मन्तव्यस्तु बलावधिः ॥६॥ प्रतिपद्येति कृष्णेन, धृतमत्यायतं भुजम् । वज्रार्गलनिभं नेमिणालवदनामयत् ।।७।। धृतेऽपि नेमिना बाहौ, बाहुयुग्मेन केशवः । ललम्बे द्रुमशाखायां, शाखामृग इवोत्प्लुतः ॥८॥ नेमेन॑मयितुं बाहुमशक्तः प्राह केशवः । जेतास्मि त्वबलेनाहं, साहङ्कारानपि द्विषः ॥९॥ एवंविधबलोद्दामोऽरिष्टनेमिर्ग्रहीष्यति ।
मम राज्यमिति ध्यायन्नूचे देवतया हरिः ॥१०॥ १. करे दधौ सं० ॥ २. ते तु ने° खंता० सं० ॥ ३. ° म° खंता० ॥
D:\maha-k.pm5\2nd proof