________________
३७०]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् इत्थं निर्मथिताशेषोपसर्ग-ग्रह-विग्रहः । गोविन्दो विदधे न्यायधर्मशर्ममयीं महीम् ॥४२१।। परिचरति पुरीयं वारिधौ न्यायधर्मव्यतिकरमकरन्दस्यारविन्दस्य लक्ष्मीम् । जितसितकरमूर्तिस्फूतिभिः सच्चरित्रैरिह विहरति हंसः कंसविध्वंसनोऽसौ ॥४२२।। ॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्यके महाकाव्ये
हरिविजयो नाम त्रयोदशः सर्गः समाप्तः ॥ विश्वस्मिन्नपि वस्तुपाल ! जगति त्वत्कीर्तिविस्फूर्तिभिः, श्वेतद्वीपति कालिकाकलयति स्वर्मालिकानां मुखम् । यत्तैस्तावककीर्तिसौरभमदान्दारमन्दादरे, वर्गे स्वर्गसदां सदा च्युतनिजव्यापारदुःस्थै स्थितम् ॥१॥
॥ ग्रन्थाग्रम् ४३० ॥ उभयम् ४६९०॥
१. °म् ४०४ । उभयं ग्रंथ ४५७९ वता० ॥
D:\maha-k.pm5\2nd proof