________________
10
त्रयोदशः सर्गः]
[३६९ उत्को यावज्जरासन्धः, पश्यत्यरिशिरश्छिदाम् । तावद् विष्णो: करे चक्रं, ददर्श व्योम्नि भानुवत् ॥४०८।। अभवद् वासुदेवोऽद्य, नवमोऽयमिति ब्रुवन् । विष्णौ व्यधित गन्धाम्बु-पुष्पवृष्टिं सुरव्रजः ॥४०९।। पूर्वाब्धिरिव कल्लोले, रवि चक्रं करे दधत् । अथ कृष्णः कृपाविष्टो, जरासन्धमदोऽवदत् ॥४१०।। आजीवमज्रिराजीवभ्रमरीभूय भूयसीम् । भज लक्ष्मी जरासन्ध !, बन्धो ! सन्धेहि जीवितम् ॥४११॥ अथाभ्यधाज्जरासन्धो. मधा गोविन्द ! माद्यसि । मदुच्छिष्टेन लब्धेन, चक्रेण च्छत्रधारवत् ॥४१२॥ तदुच्चैर्मुञ्च मुञ्चाहो !, चक्रं मां प्रति सम्प्रति । रे रे ! मदीयमेवेदं, प्रभविष्यति नो मयि ॥४१३।। ततः कृष्णकरोन्मुक्तं, स्फुलिङ्गैः पिङ्गयद् दिशः । तदायुधं जरासन्धस्कन्धबन्धं द्विधा व्यधात् ॥४१४।। चतुर्थं नरकं निन्ये, जरासन्धः स्वकर्मभिः । जयोज्ज्वलस्तु कृष्णोऽस्थाद् , वसुदेवागमोत्सुकः ॥४१५।। जरासन्धवधं श्रुत्वा, तद्गृयैः खेचरैरितः । विमुच्य रणसंरम्भं, वसुदेवः समाश्रितः ॥४१६।। गृहीतोपायनैः साकं, तैर्विद्याधरपुङ्गवैः । प्रद्युम्न-साम्बवान् कृष्णं, वसुदेवः समाययौ ॥४१७।। अथ प्रीतो हरिः सर्वैः, खेचरैर्भूचरैर्वृतः । वसुधां साधयामास, त्रिखण्डां चण्डविक्रमः ॥४१८।। भरतार्द्धं विजित्याथ, प्रविष्टो द्वारकापुरीम् । स भेजे सम्भृतं भूपैरभिषेकमहोत्सवम् ॥४१९।। सम्बन्धि-बन्धुवर्गेषु , सेवकेषु सुहृत्सु च ।
यथौचित्यं ददौ राज्यसंविभागं गदाग्रजः ॥४२०॥ १. तुर्थन खंता० ॥
20
25
D:\maha-k.pm5\2nd proof