________________
5
10
15
20
25
३६८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् विदधानैस्तदाऽपास्तवार्त्तं मार्तण्डमण्डलम् । अन्धकारैर्जगन्नेत्रबन्दिकारैर्विजृम्भितम् ॥३९५॥ वलितैः स्खलितैरङ्गैर्निजैरेव परैरिव । अपश्यन्तोऽप्यबध्यन्त, जरासन्धबले भटाः || ३९६|| मुमोचास्त्रमथ प्रौढवैरो वैरोचनं नृपः । प्रतापैरिव तद् भानुभारैराविरभावि खे ॥३९७॥ मूलेषु जग्मुर्नागानां, तुरङ्गि-रथि-पत्तयः । नारायणबले तापाक्रान्ता यान्तु क्व दन्तिनः ? ||३९८ || आहवै राहवीयास्त्रं, निदधेऽथ यदूद्वहः । चेलुस्ततः करालास्या, राहवो बहवोऽम्बरे || ३९९॥ अगिलन्नथ मार्तण्डमण्डलानि सहस्रशः । आकाशद्रुफलानीव, ते पक्षिण इव क्षणात् ॥४००|| अतृप्ता इव मार्तण्डमण्डलैर्गिलितैरथ । विधुभ्रान्त्येव तेऽधावन्, परवीराननान्यभि ||४०१॥ लीलानिष्फलिताशेषदिव्यास्त्रेषु प्रमाथिषु । राहुष्वथ क्रुधा चक्रं, प्रतिचक्री मुमोच तत् ||४०२॥ बहूनामपि राहूणामथाऽऽधाय वधं युधि । हरिं प्रत्यचलच्चक्रं, सहस्रांशुसहस्ररुक् ||४०३|| सम्भूय यदुभिर्मुक्तान्यपि शस्त्राणि भस्मयत् । दावपावकच्चक्रं, वनमालिनमभ्यगात् ॥ ४०४॥ आसन्नेऽपि तदाऽऽयाते, चक्रेऽस्मिन्नर्ककर्कशे । नाऽगाद् गोविन्दवक्त्रेन्दुर्मन्दिमानं मनागपि ॥४०५॥ तदा यादवसैन्यानामाकुलैस्तुमुलारवैः । परमार्थविदोऽप्यन्तश्चक्षुभुः कुलदेवताः ॥४०६|| क्रुद्धस्त्रीमुक्तताडङ्कताडं कष्टप्रदं तदा । नाभिपिण्डिकया चक्रं, तत् पस्पर्श हरेरुरः ॥ ४०७|| १. प्ययुध्य खंता० ॥ २. प्रधाविषु खंता० ॥
D:\maha-k.pm5 \ 2nd proof