________________
[३६७
10
त्रयोदशः सर्गः]
तयोस्तदेषुजातेन, जाते नभसि मण्डपे । नापूरि नाकनारीणां, रणालोकनकौतुकम् ॥३८२।। शस्त्रैस्तमपरैः शत्रमजेयं परिभावयन् । मंगधेशोऽस्त्रमाग्नेयं, वाग्नेयं विशिखे न्यधात् ।।३८३।। ज्वलनः प्रज्वलन्नुद्यद्धूमलेखाङ्कितस्तदा । शत्रुदाहं प्रतिज्ञातुं , मुक्तचूल इवाभवत् ॥३८४॥ अथाऽऽलोक्य बलं ज्वालाजिह्वज्वालाकुलाकुलम् । अम्भोदास्त्रम् महारम्भो, जम्भारेरनुजोऽमुचत् ॥३८५।। नैकं केशवसैन्यानि, तापयन्तं हुताशनम् । महोऽपि मगधेशस्य, शान्ति निन्युस्तदाऽम्बुदा ॥३८६।। धृतेन्द्रचापो निस्तापः, शरासारैस्तदाऽम्बुदः । श्रीनेमिरिव नीलश्रीररिसैन्यानि बद्धवान् ॥३८७|| विलोकयन् नृपो मेघधारासाराकुलं बलम् । यशोमालिन्यमुच्छेत्तुं , मुमुचेऽस्त्रं स पावनम् ॥३८८।। द्रुतं विदुद्रुवे वातैर्घनडम्बरमम्बरम् । मगधेशप्रतापश्च, भास्वान् दुःसहतामधात् ॥३८९।। सङ्कोचं पृतनाङ्गेषु , कुर्वाणं भ्रमिदुर्धरम् । वायुप्रकोपं हन्ति स्म, हरिर्वाताशनौषधैः ॥३९०।। यशःक्षीरं च वातं च, पीत्वा ते मगधेशितुः । प्रतापदीपं फूत्कारैः, शमयन्ति स्म पन्नगाः ॥३९१।। अथो फणिफणाघातकातरां वीक्ष्य वाहिनीम ।। मुमोचास्त्रं नृपो धैर्यचारु गारुडमुत्कटम् ॥३९२।। ततपक्षास्ततो लक्षसङ्ख्या रुरुधुरुद्धराः । गरुडा गगनं मेरुकुलोत्पन्ना इवाद्रयः ॥३९३।। गरुडैरथ कंसारि गास्त्रे विफलीकृते ।
भास्वानपि मुमोचास्त्रं, तामसं नाम सङ्गरे ॥३९४।। १. माग° खंता० ॥ २. स्तथा खंता० ॥ ३. °म्बरे खंता० ॥
20
25
D:\maha-k.pm5\2nd proof