________________
३६६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ श्रीनेमिसाहाय्यलब्धोत्साहो यदुव्रजः । परेषुमारुतप्रत्तोद्यमो दव इवाज्वलत् ॥३६९।। भीमस्तदा रणक्षोणावन्विष्यान्विष्य कौरवान् । करीवोन्मूलयामास, वनान्तः सल्लकीतरून् ॥३७०।। भास्वानाश्वासनामाप्य, बलोऽपि प्रबलोद्यमः ।
अरीन् व्यरीरमद् वायुः, कज्जलध्वजवज्जवात् ॥३७१॥ ६६ सद्योऽङ्गजव्रजध्वंसोबुद्धकंसवधक्रुधा । जिष्णुं जगाद जाज्वल्यमानधीर्मगधाधिपः ॥३७२।। अयुध्यमानो मल्लानां, पश्यन् कौतूहलं छलात् । अरे ! वीरकुलोत्तंसः, कंसः किल हतस्त्वया ॥३७३॥ तस्मिन् रणाङ्गणोत्ताले, काले दत्तप्रयाणके । पलाय्याऽऽशु प्रविष्टोऽसि, पयोधिपरिखां पुरीम् ॥३७४।। तवाद्य केन दैवेन, दत्ता दुर्मद ! दुर्मतिः ? । स तादृशो दृशोर्मार्गे, यदस्माकमढौकथाः ॥३७५।। कुक्षौ कस्यां स कंसोऽस्ति ?, वद त्वां हन्मि हेलया । प्रतिज्ञां पूरयाम्यद्य, तां जीवयशसश्चिरात् ॥३७६।। ततस्तमाह गोविन्दः, किमालपसि बालिश ! ? । कंसकुञ्जरसिंहस्य, जरद्गव इवासि मे ॥३७७॥ कंसोऽस्ति वामकुक्षौ मे, कुक्षिः शून्यस्तु दक्षिणः । इहाऽऽविश जवाद् येन, तृप्तः खेलामि भूतले ॥३७८।। प्रतिज्ञां पूरय रयात् , तां जीवयशसोऽधुना । त्वत्प्रेयसीनां सार्थेन, यात्वसौ दहनाध्वना ॥३७९।। अथ क्रुद्धोऽक्षिपद् बाणान् , मगधश्चिच्छिदुश्च तान् । दिवि कृष्णशरा भानुकरानिव पयोधराः ॥३८०।। पर्जन्याविव गर्जन्तौ, तर्जयन्तावुभौ मिथः ।
युयुधाते क्रुधा तेज:पिञ्जरौ कुञ्जराविव ॥३८१॥ १. °त्तोत्साहो दव खंता० सं० ॥
20
25
D:\maha-k.pm5\2nd proof