________________
[३६५
त्रयोदशः सर्गः]
सारणेन रणे जघ्ने, तदा रामानुजन्मना । जवनाख्यो जरासन्धयुवराजो महाभुजः ॥३५७।। ततः सुतवधक्रुद्धो, जरासन्धोऽपि जघ्निवान् । दश रामसुतान् तार्श्वव्यूहाघिनखरानिव ॥३५८॥ कृष्णोऽपि शिशुपालस्य, मूर्धानमसिनाऽच्छिनत् । चक्राधिरूढकलशं, कुलाल इव तन्तुना ॥३५९॥ तदाऽष्टाविंशतिस्तत्र, जरासन्धसुता हताः । बलेन मुशलेनाऽऽशु , निजाङ्गजवक्रुधा ॥३६०।। जरासन्धेन चापत्यपेषरोषान्धचक्षुषा । आहतो गदया रक्तं, वमन् भुवि बलोऽपतत् ॥३६१।। तदा बन्धुपराभूतिक्रोधाविर्भूतिदुर्धरः । जरासन्धभुवोऽभैत्सीद् , विष्णुरेकोनसप्ततिम् ॥३६२।। तदोद्धरविरोधेन, क्रोधेन मगधाधिपः ।
ज्वलंश्चचाल कृष्णाय, शरभायेव केसरी ॥३६३।। $इहान्तरे जरासन्धशरासारतिरस्कृते ।
अभवद् यदुसैन्येऽस्मिन् , हतो हरिरिति प्रथा ॥३६४।। तदाऽऽकुलं यदुकुलं, श्रीमान् नेमिविलोकयन् । रथं मातलिना युद्धे, ससम्भ्रममबिभ्रमत् ॥३६५।। अथेन्द्रचापनिर्मुक्तैः, शरैः स्वामी रिपुव्रजम् । आच्छादयदुडुस्तोमं, करैरिव दिवाकरः ॥३६६।। एक एव तदा स्वामी, विश्वरक्षा-क्षयक्षमः । विपक्षक्ष्माभृतां लक्षं, रुरोधाऽघातकैः शरैः ॥३६७।। किरीटेषु ध्वजाग्रेषु , कुन्तप्रान्तेषु सारिषु । फलकेष्वातपत्रेषु , पेतुः प्रभुपतत्त्रिणः ॥३६८।।
१. °न तत्पुत्रपेष खंता० || २. अच्छा खंता० ॥ ३. कुम्भप्रा खंता० ॥
D:\maha-k.pm5\2nd proof