________________
३६४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् व्यूहयोरनयोर्वीरव्यूहोऽथ रणकौतुकी । चतुर्युगीमिव श्यामाचतुर्यामीममन्यत ॥३४५।। अथ तद्युद्धकीलालनदीरक्तादिवाम्बुधेः । उदियाय रविः कुप्यत्कान्तदृक्कोणशोणरुक् ॥३४६।। अथो निजं निजं व्यूह, विरचय्य रणोत्सुकाः । अगजिषुर्जरासन्ध-जनार्दनचमूचराः ॥३४७।। जरासन्धाभिषिक्तोऽथ, शिशुपालश्चमपतिः । पुरस्कृत्याश्वसैन्यानि, प्रचचाल प्रति द्विषम् ॥३४८।। अनाधृष्टिरथो वाहवाहिनी स्थिरयन् पुरः । अचस्खलत् खलमम, सिन्धपरमिवाचलः ॥३४९।। उत्पाट्योत्पाट्य निस्त्रिंश-गदा-पट्टिश-मुद्गरान् । ततो युयुधिरे धीरास्तुरङ्गाश्च जिहेषिरे ॥३५०॥ व्यालोलत्पादकटकबद्धवध्रग्रहोत्थितम् । भ्रष्टं कोऽपि समित्यश्ववारमारोहयद्धयः ॥३५१॥ छिन्नाग्रपादतुण्डोऽपि, कोऽप्यश्वः समरान्तरात् । क्रामन् पाश्चात्यपादाभ्यामाचकर्ष निषादिनम् ॥३५२॥ खुराग्रैस्त्रोटचयन्नन्त्रावली द्विड्यातनिःसृताम् । कोऽप्यश्वः समरेऽधावत् , स्वसादिमनसा समम् ॥३५३।। छिन्नमौली द्विषा कौचित् , तुरङ्गम-तुरङ्गिणौ । प्रधावने च घाते च, स्पर्धयेव न निवृतौ ॥३५४॥ अश्वः कोऽप्युरसाऽऽहत्य, साश्ववारान् पुरो हरीन् । धावन्नपातयद् युद्धश्रद्धां च निजसादिनः ॥३५५।। हयतः पतितौ पादकटकस्खलितक्रमौ ।
केशाकर्षादयुध्येतां, शस्त्र्या कौचिदधोमुखौ ॥३५६।। १. निजनिजव्यू खंता० ॥ २. 'त्य च सै सं० ॥ ३. °ष्टिस्ततो वा सं० ॥ ४. वीरा सं०॥
15
D:\maha-k.pm5\2nd proof