________________
[३६३
त्रयोदशः सर्गः]
आमूलं वैरिनाराचकीलनेन स्थिरीकृते । धनुर्युजि भुजि कोऽपि, ननन्द प्रहरन् रथी ॥३३२॥ सूते हतेऽपि पादाग्रधृतप्राजनरश्मिकः । हयानवाहयत् कोऽपि, युयुधे च द्विषा रथी ॥३३३।। रथिकः कोऽपि बाणेन, पाणौ वामे कृतक्षते । ध्वजदण्डे धनुर्बद्ध्वा, शरान् साक्षेपमक्षिपत् ॥३३४।। कस्यापि रथिनो बाणा, भेद्यं प्राणाधिका ययुः । अन्तःकृत्ता अपि द्वेषविशिखैर्भुजगा इव ॥३३५।। हन्तुमुच्छलितश्छिन्नमौलिरर्धपथे रथी । कोऽपि प्रतिरथं गत्वा, रिपोर्मुण्डमखण्डयत् ॥३३६।। समरे विरथो व्यस्त्रश्चक्रवर्तीव कोऽप्यभात् । भग्नस्यात्मरथस्यैव, चक्रमादाय शस्त्रयन् ॥३३७।। छिन्नेषु कौतुकाद् योक्तरश्मिषु द्विषता शरैः ।। कस्यापि धनुराकृष्टिस्थाम्नाऽभूदुन्मुखो रथः ॥३३८।। इतः सात्यकिना कृष्णजयार्णवहिमांशुना । जिग्ये भूरिश्रवा भूपो, योक्त्रबद्धगलग्रहात् ॥३३९।। इतो मुर्ताविव क्रोधौ, कृतरोधौ परस्परम् । अयुध्येतामनाधृष्टि-हिरण्यपृतनापती ॥३४०॥ अथोद्धृतासि-फलकौ, बलकौतुककारिणौ । उत्सृज्य रथमन्योन्यं, क्रोधाद् वीरावधावताम् ॥३४१।। अनाधृष्टिकृपाणेन, सणेवाथ सर्पता । हिरण्यस्य समं प्राणानिलैः कीर्तिपयः पपे ॥३४२॥ अत्रान्तरे रणोद्धृतधूलीभिरव धूसरः । अपराब्धौ गतः स्नातुमनामनाय नायकः ॥३४३।। अथाऽऽत्मस्थानमायातौ, सायं व्यूहावुभवपि । कल्पान्तविरतौ पूर्व-पश्चिमाम्भोनिधी इव ॥३४४।।
D:\maha-k.pm5\2nd proof