________________
३६२]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् उत्क्षिप्तः शुण्डया दूरं, केनापि करिणा करी । ततो भूभङ्गभीत्येव, दन्तदण्डे धृतः पतन् ॥३१९।। लज्जयामासतुः स्वं स्वं, योधं कौचन सिन्धुरौ । एकस्त्रस्यन् परः पृष्ठे, व्रजन्नवमताङ्कशः ॥३२०॥ जानन्निवारिभग्नस्य, हृदयं निजसादिनः । करी प्रतिकरीन्द्रेणोपद्रुतः कोऽपि विद्रुतः ॥३२१॥ इतो व्यालोलकल्पान्तकालकल्पं सुयोधनः । भीमं द्विषद्वधाविष्टमभ्यधाविष्ट दुष्टधीः ॥३२२॥ द्यतच्छलं स्मरन भीमस्तथा तं गदयाऽपिषत । यथाऽऽशु पवनेनैव, कीर्णा देहाणवोऽप्यगुः ॥३२३॥ ततो हिरण्यनाभस्य, शरणं तद्बलं ययौ । परिवठ्रनाधृष्टिं, तेऽपि यादव-पाण्डवाः ॥३२४।। हिरण्यनाभसेनानीः, सेनानीरजनीरविः । करैरिव शरैः शोषं, निन्येऽनाधृष्टिवाहिनीम् ॥३२५।। अथाऽऽलोक्य तमायान्तमतुलं मातुलं निजम् । जयसेनो जयाकाङ्क्षी, शिवासूनुः समुत्थितः ॥३२६॥ हिरण्यनाभोऽप्येतस्य, स्यन्दनध्वजमच्छिदत् । जयसेनोऽलुनात् तस्य, ध्वज-वर्मा-ऽश्व-सारथीन् ॥३२७।। क्रुद्धोऽथ दसभिर्बाणैर्जयसेनं जघान सः । मर्माविद्भिरिभं मत्तं, करजैरिव केसरी ॥३२८।। अथ धावन महीसेनो. जयसेनसहोदरः । खड्ग-वर्मधरो दूरात् , क्षुरप्रेणामुना हतः ॥३२९।। अनाधृष्टिरथोत्तस्थे, बन्धुद्वयवधक्रुधा । ऊष्मलो दोष्मतां सीमा, सह भीमा-ऽर्जुनादिभिः ॥३३०।। हिरण्यनाभं सक्रोधमनाधृष्टिरयोधयत् ।
परस्परमढौकन्त, परेऽप्यथ महारथाः ॥३३१॥ १. रणे त° खंता० सं० ॥ २. नोऽच्छिनत् तस्य, खंता० सं० ।।
20
D:\maha-k.pm5\2nd proof