________________
[३६१
त्रयोदशः सर्गः]
यशोमुक्ताञ्चितं कर्णताडङ्कमिव जीवितम् । हरन् पार्थोऽकृताश्रीकं, कौरवध्वजिनीमुखम् ॥३०६।। मृगेन्द्र इव कर्णेऽस्मिन् , निहतेऽथ मृगा इव । मेनिरे हतमात्मानमहता अपि कौरवाः ॥३०७॥ हते कर्णेऽर्जुनस्याऽऽसीज्जितमेवेति निश्चयः । भीमश्वासमरुत्तूले, जीवत्यपि सुयोधने ॥३०८।। गजेन्द्रसेनासीमन्तो, भीमं तोयधिनिस्वनम् । क्रुद्धो दुर्योधनो राजा, सिंहं मृग इवाक्षिपत् ॥३०९॥ भीमोऽथ शुण्डया धृत्वा, महेभान् समराद् बहिः । दूरं चिक्षेप शेवालजालानीव सरोवरात् ॥३१०।। कल्लोलानिव कुम्भीन्द्रान् , दोऱ्यांमुभयतः क्षिपन् । तदा तरीतुमारेभे, भीमः सङ्गरसागरम् ॥३११॥ दायाद एव भीमस्य, युद्धभागेऽप्यढौकत । सज्जीकृतद्विपकुलो, नकुलोऽथ प्रतिद्विषः ॥३१२।। ततः पाण्डव-कौव्यबलयोः प्रबलस्वनाः । अमिलन्नाशु कीनाशकिङ्करा इव कुञ्जराः ॥३१३।। कौचिद् द्विपौ दृढाघातभ्रष्टदन्तौ रणे मिथः । अस्पृश्येतां कराग्रेण, मन्दमग्रे द्विपीधिया ॥३१४।। कोऽपि प्रतिद्विपं दन्ती, स्वदन्तप्रोतविग्रहम् । उर्ध्वमुत्पाटयामास, कृतान्तायार्पयन्निव ॥३१५।। युद्धेन चलितं योद्धुमक्षमं दन्तमात्मनः । द्विपोऽन्यः शुण्डयोन्मूल्य, तेनाभैत्सीत् प्रतिद्विपम् ॥३१६।। पराङ्मुखौ मिथो भङ्गादभूतां सम्मुखौ पुनः । स्वेभैः परभ्रमात् कौचित् , ताडितौ चलितौ गजौ ॥३१७।। उद्धृत्य शुण्डया कोऽपि, प्रतिदन्तिरदं रणे ।
रुषाऽक्षिपन्मुखे मूर्ती, रिपुकीर्तिमिव द्विपः ॥३१८।। १. 'यनिधिस्व खंता० ॥ २. समरसा खंता० सं० ।।
25
D:\maha-k.pm5\2nd proof