________________
5
10
15
20
25
३५८ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् समुद्रविजयेनाथ, चमूनाथपदे स्वयम् । कृष्णाग्रभूरनाधृष्टिरभिषिक्तो महाभुजः ||२६७॥ स्कन्धावारे हरेरासीदथो जयजयारवः । विपक्षक्षितपक्षोभकारी ब्रह्माण्डभाण्डभित् ॥ २६८॥ सैन्यद्वयेऽपि नासीरवीरा युयुधिरे ततः । गर्जन्तोऽस्त्राणि वर्षन्तो, युगान्तघनवद् घनम् ॥२६९॥
गजेन्द्रगर्जिभिस्तूर्यरसितैर्हयहेषितैः । रथघोषैर्भटारावैः, शब्दाद्वैतं जगत्यभूत् ॥२७०॥
जरासन्धभटैर्भग्नानिव वीक्ष्य भटानथ ।
ऊर्ध्वकृत्य भुजादण्डं, धीरयामास केशवः ॥ २७१॥ उत्तस्थिरे महानेमि- पार्था - ऽनाधृष्टयस्त्रयः । तार्क्ष्यपक्षद्वयीचञ्चरूपा भूपावलीवृताः ||२७२|| दध्मुर्निजं निजं शङ्ख, तथामी दुर्धरास्त्रयः । यथा चेतश्चमत्कारं, श्रीनेमेरपि चक्रिरे ॥ २७३ ॥ युद्ध्यमानैः स्फुरन्मानैरथ तै रथिभिस्त्रिभिः । चक्रव्यूहो रयादेव, त्रिषु स्थानेष्वभज्यत ॥२७४॥ इमां वीरत्रयीं व्यूहे, विशन्तीमन्वगुर्नृपाः । दृढीभूताः पटे गाढे, सूचिकामिव तन्तवः ॥ २७५॥ एतान् प्रत्युत्थितान् दुर्योधन-रौधिरि-रुक्मिणः । एतैरथ मिथः षड्भिर्द्वन्द्वयुद्धमुरीकृतम् ॥२७६॥ अथ तद्गृह्यवीराणां, कुप्यत्कीनाशतेजसाम् । मिथो विश्वत्रयत्रासचणः प्रववृधे रणः ॥२७७|| केऽपि भीताः परे क्रुद्धा, न तु कोपोऽप्यजायत । केषाञ्चित् खेलतां शत्रुशिरोभिः कन्दुकैरिव ॥२७८ ।। मौलौ कोऽप्यसिकृत्तेऽपि, दन्तदष्टाधरः क्रुधा । रिपुं जघान हस्तेन, समालम्ब्य गलं बलात् ॥ २७९॥
D:\maha-k.pm5\ 2nd proof