________________
त्रयोदशः सर्गः ]
कोऽपि प्रसन्नगम्भीरो, वीरो निर्दारयन्नरीन् । दर्शयामास नेत्रौष्ठ - भ्रूमात्रेऽपि न विक्रियाम् ॥ २८०॥ शिरो वैरिशरोत्क्षिप्तं, कस्याप्यालोलवेणिकम् । सखड्गराहुसंभ्रान्त्या, दिवि देवानभापयत् ॥२८१॥ नृत्ते सदृष्टिभ्रूभङ्गं, शत्रौ कृत्तशिरस्यपि । हन्तुर्लोहमयेनापि, शिरः खड्गेन कम्पितम् ॥ २८२॥ जिघांसुमिभमायान्तं, गृहीत्वा कोऽपि शुण्डया । भ्रमयन्नम्बरे भ्रष्टशस्त्रो योद्धुमशस्त्रयत् ॥२८३॥ क्रमव्यापारिताशेषभ्रष्टशस्त्रो रणेऽपरः ।
नखैर्दन्तैरपि रिपून्, बिभिदे सिंहविक्रमः ॥२८४॥ दृशैव त्रासयन् वीरान्, हुङ्कारेणैव कुञ्जरान् । अभ्युद्यतास्त्र एवान्यः, परसैन्यमलोडयत् ॥२८५॥ ध्वान्ते धूलिकृते खड्गः, कस्यापि दलयन्नरीन् । केयूररत्नबिम्बेन, धृतदीप इवाबभौ ॥२८६॥ हत्वा चपेटयैवान्यः, पविपातसमानया । अलूलुठदिभान् भूमौ, पर्वतानिव वासवः ॥२८७॥ आस्फाल्यान्योन्यमन्योऽरिशिरांसि करलीलया । नालिकेरीफलानीव, बभञ्ज भुजकौतुकी ॥२८८॥ हक्कापराङ्मुखः पुच्छे, धृतः केनापि कुञ्जरः । प्राणं कुर्वन् गतौ मुक्तो, मुखाग्रेणापतद् भुवि ॥ २८९॥ अन्योन्यास्फालनोन्मुक्तस्फुलिङ्गैरसिभिस्तदा । धूमायितं प्रदीप्तानां, शिखिनामिव दोष्मताम् ॥ २९०॥ कचग्रहपरः शत्रुहस्तोंऽसादसिना क्षतः । कस्याप्यपतितो हस्तिशोभां शुण्डानिभो ददौ || २९१॥ उद्यन्महा महानेमिर्विरथं रुक्मिणं व्यधात् । तन्महानेमये शक्तिं, राजा शत्रुन्तपोऽक्षिपत् ॥२९२॥
D:\maha-k.pm5\ 2nd proof
[ ३५९
5
10
111
15
20
25