________________
त्रयोदशः सर्गः]
[३५७ हिरण्यनाभं भूपालं, भूभुजां दण्डनायकम् । कृतं वीक्ष्य भयेनेव, सूरोऽप्यस्तमितस्तदा ॥२५५।। दोषायामथ दुर्धर्षा, यदवोऽपि दवोर्जिताः ।। चक्रिरे गरुडव्यूह, चक्रव्यूहजयेच्छया ॥२५६।। अर्धकोटिः कुमाराणां, व्यूहस्यास्य मुखे स्थिताः । शीरि-शार्ङ्गधरौ युद्धदुर्धरौ मूर्धनि स्थितौ ॥२५७।। वसुदेवभुवोऽक्रूरमुख्या द्वादश दुर्धराः । रथलक्षयुता विष्णोरभूवन् पृष्ठरक्षकाः ॥२५८।। पृष्ठे तेषामभूदुग्रसेनः कोटिमितै रथैः । तत्पृष्ठरक्षकास्तस्य, चत्वारः सूनवोऽभवन् ॥२५९।। व्यूहस्य दक्षिणे पक्षे, समुद्रविजयः स्वयम् । तस्थौ परिवृतो वीरर्धातृ-भ्रातृव्य-सूनुभिः ॥२६०॥ चञ्चन्तः पञ्चविंशत्या, रथलक्षैरथाऽपरे । समुद्रविजयं भूपाः, परिवृत्याऽवतस्थिरे ॥२६१॥ वामपक्षे तथोद्दामधामानो रामनन्दनाः । युधिष्ठिरादयः पाण्डुसूनवश्चावतस्थिरे ॥२६२॥ कृतास्त्रताण्डवास्तस्थुः, पाण्डवानां तु पृष्ठतः । भास्वन्तो भूरयो भूपा, धार्तराष्ट्रवधेच्छया ॥२६३।। यमदण्डोग्रदोर्दण्डा, अर्ककर्कशतेजसः । अभूवन् भूरयो भूपाः, परितो व्यूहरक्षिणः ॥२६४॥ इत्येष गरुडव्यूह, विदधे गरुडध्वजः । यं वीक्ष्य विलयं प्राप, दर्पसर्पो विरोधिनाम् ॥२६५।। अथ प्रेषितमिन्द्रेण, जैत्रशस्त्रचयान्वितम् ।
युयुत्सुर्नेमिरारूढो, रथं मातलिसारथिम् ॥२६६।। १. °जयादयः । खंता० ॥ २. °क्ष्य प्रलयं याति, दर्प° खंता० ॥ ३. य °याञ्चितम् खंता० ॥ ४. रथिः खंता० ॥
D:\maha-k.pm5\2nd proof