________________
३५६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् योजनानि पुरात् पञ्चचत्वारिंशतमीयिवान् । ग्रामेऽथ शतपल्ल्याख्ये, स निवासानकारयत् ॥२४२।। चतुभिर्योजनैः कृष्णे, स्थितेऽर्वाग् मगधेशितुः । एत्य विद्याधराः केऽपि, समुद्रनृपमभ्यधुः ॥२४३॥ त्वद्भातुर्वसुदेवस्य, गुणगृह्या वयं नृप ! । तदागमाम वैताढ्यादाख्यातुं भवतां हितम् ॥२४४।। अन्येभ्यः किमु साहाय्यं, भवतां भुजशालिनाम् ? । तथापि सुजनस्नेहसम्मोहादिदमुच्यते ॥२४५।। जरासन्धस्य मित्राणि, वैताढ्ये सन्ति खेचराः । असमायान्त एवामी, योग्याः साधयितुं द्विषः ॥२४६।। प्रद्युम्न-साम्बसहितं, वसुदेवं तदादिश । वयं यथा विगृह्णीमो, रिपुमित्राणि खेचरान् ॥२४७।।
ओमिति क्ष्माभृताऽऽदिष्टे, वसुदेवे चलत्यथ । प्रददौ भगवान्नेमिरौषधीमस्त्रवारणीम् ॥२४८॥ अथाऽऽदिश्य जरासन्धो, हंस-डिम्भकमन्त्रिणौ । अभेद्यं रिपुचक्रेण, चक्रव्यूहमकारयत् ॥२४९।। चक्रस्यास्य सहस्रारीसहस्रं भूभुजोऽभवन् । भूरिस्यन्दन-हस्त्य-ऽश्व-पदातिपरिवारिताः ॥२५०॥ षटसहस्रमहीपानां दधिरे प्रधिरूपताम । भूपपञ्चसहस्रीवान् , स्थितोऽन्तर्मगधाधिपः ॥२५१।। पृष्ठे सैन्धव-गन्धारसेनाऽभून्मगधप्रभोः । धार्तराष्ट्राः शतं युद्धदक्षा दक्षिणतोऽभवन् ॥२५२।। सन्धौ सन्धौ च पञ्चाशच्छकटव्यूहसङ्कटे । व्यूहेऽस्मिन् दधिरे गुल्मा, भूपानामन्तराऽन्तरा ॥२५३।। चक्रव्यूहस्य च बहिर्बहुधा व्यूहधारिणः ।
स्थाने स्थाने नृपास्तस्थुर्महीयांसो महाभुजाः ॥२५४।। १. °धरः कोऽपि, समुद्रनृपमभ्यधात् खंता० ॥ २. °हादयमुद्यमः ॥ खंता० ॥
20
25
D:\maha-k.pm5\2nd proof