________________
त्रयोदशः सर्गः]
[३५३ इतश्च रम्यमेकोनं, कन्याशतममेलयत् । भामा भीरुकृते किञ्च, कन्यामेकां स्म काङ्क्षति ॥२०३।। तन्मत्वा रुक्मिणीसूनुर्विकृत्य पृतनां स्वयम् । जितशत्रुर्नृपो जज्ञे, साम्बस्तस्य तु कन्यका ॥२०४।। तन्मत्वा भामया प्रैषि, पुरुषो जितशत्रवे । स गत्वा प्रार्थयामास, तां कन्यां भीरुहेतवे ॥२०५।। जितशत्रुरथ प्राह, तं भामाप्रेषितं नरम् । भामा यदि स्वयं हस्ते, कन्यामादाय गच्छति ॥२०६।। चेत् कारयति मत्पुत्रीकरं भीरुकरोपरि । पाणिग्रहणवेलायां, तद् ददामि सुतामहम् ॥२०७।। गत्वा तेन नरेणेति, कथिते सत्यशेषतः । तदूरीकृत्य सत्याऽपि, कन्यार्थं चलिता स्वयम् ॥२०८।। प्रज्ञप्ति प्राह साम्बोऽपि, जनोऽसौ साम्बमेव माम् । जानातु देवि ! भामा तु , कन्यकां सपरिच्छदा ॥२०९।। अथाऽऽगत्य स्वयं सत्या, कन्यामादाय तां करे । साम्बरूपतया लोकैदृश्यमानां गृहेऽनयत् ॥२१०॥ भीरोः करोपरि करं, साम्बः कुर्वन्नुदूढवान् । धृत्वैकोनशतस्त्राणकरान् दक्षिणपाणिना ॥२११।। अथ ताभिः समं साम्बः, प्रपेदे कौतुकालयम् । भीरुस्तेन भ्रवाऽऽक्षिप्तः, सर्वं मातुर्यवेदयत् ॥२१२॥ कुपिताऽथाऽऽययौ भामा, साम्ब: स्मित्वा ननाम ताम् । केनाऽऽनीतोऽसि रे धृष्ट ! ?, साटोपमिति साऽवदत् ॥२१३।। अहं मातस्त्वयाऽऽनीय, कन्योद्वाहमकारिषि । इति जल्पत्यथो साम्बे, साक्ष्यभूदखिलो जनः ॥२१४॥ त्वया मायागृहेणाहं, कन्याकूटेन वञ्चिता । इत्युक्त्वा सत्यभामाऽपि, यथागतमगात् पुनः ॥२१५।।
15
D:\maha-k.pm5\2nd proof