________________
३५४]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अथ ताः कन्यका: कम्बुपाणिः साम्बाय दत्तवान् । ताभिर्जाम्बवतेयोऽभात् , ताराभिरिव चन्द्रमाः ॥२१६॥ $इतश्च जवनद्वीपवणिजो द्वारकापुरः ।
पुरे राजगृहे जग्मुर्विक्रेतुं रत्नकम्बलान् ॥२१७।। कम्बला जीवयशसा, स्वल्पमूल्येन याचिताः । तदूचुर्वणिजो मूल्यं, द्वारकायामभून्महत् ।।२१८।। का द्वारकापुरी ? तस्यां, कश्चास्ति पृथिवीपतिः ? । ते जीवयशसेत्युक्ताः, प्रोचुः कम्बलवाणिजाः ॥२१९॥ मध्येपयोधि विदधे, द्वारकाख्या पुरी सुरैः । तत्र धात्रीधवः कृष्णो, देवकी-वसुदेवभूः ॥२२०।। इति जीवयशाः श्रुत्वा, ताडयन्ती करैरुरः । दुःखयन्ती सखीचक्रमिति चक्रन्द मन्दधीः ॥२२१॥ कथं रोदिषि पुत्रिति, जरासन्धाय पृच्छते । साऽऽख्यदद्यापि कंसारिर्जीवत्यवति चावनिम् ॥२२२।। तदहं मदहुङ्कारहीना दीना करोमि किम् ? । ममाद्य शरणं तात !, त्वत्प्रतापसखः शिखी ॥२२३॥ अथेति शिखिनाम्नाऽपि, ज्वलितो निजगाद सः । स्थिरीभव हरेर्नारी:, क्षेपयिष्यामि पावके ॥२२४।। इत्युदीर्य तदा वीर्यदुःसहः सहसा नृपः । पुरे सूचितदिग्यात्रारम्भां भम्भामवादयत् ॥२२५।। सहसा सहदेवाद्याः, सह साहसिकै टैः । परिवQर्जरासन्धं, सूनवोऽथ नवोद्यमाः ॥२२६।। रिपुभूमीभुजां कालः, शिशुपालः करालदृक् । कौरव्योऽरिवधारम्भधुर्यो दुर्योधनः पुनः ॥२२७।। अन्येऽपि वेपितारातिकोटयः कोटिशो नृपाः ।
परिवस्तमागत्य, विन्ध्यादिमिव सिन्धुराः ॥२२८॥ युग्मम् ॥ १. वसूः खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof