________________
10
३५२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ऊढवान् सुहिरण्याख्यां, साम्बो हेमाङ्गदात्मजाम् । नित्यं हन्ति स्म हेलासु , भामापुत्रं च भीरुकम् ॥१९१।। अथाऽऽख्यत् केशवो जाम्बवत्यै साम्बकुचेष्टितम् । सा प्राह पुत्रः सौम्ये मे, दर्श्यतां कोऽस्य दुर्णयः ? ॥१९२।। तस्याः प्रत्यायनायाथ, जाम्बवत्या समं हरिः । आभीरीभूय विक्रेतुं , तक्रं द्वारि पुरः स्थितः ॥१९३।। तक्रविक्रयिणौ साम्बो, नगरद्वारि वीक्ष्य तौ । समाकारयदाभीरी. तक्रक्रयणकैतवात् ॥१९४॥ सहाऽऽभीरेण साम्बं साऽन्वगाद् देवालयन्तिके । अन्तरप्रविशन्ती, तां, साम्बोऽकर्षत् करग्रहात् ॥१९५।। रे ! किमेतदिति क्रुध्यन्नाभीर: साम्बमाक्षिपत् । दृष्ट्वा स माता-पितरौ, तौ साक्षात् तूर्णमत्रसत् ।।१९६।। दृष्टयं सोमता सूनोराह जाम्बवती हरिः । कीलिकां घटयन् साम्बः, प्रातः प्राप्तः सभान्तरे ॥१९७।। क्षेप्याऽसौ शस्तनकथाकर्तरास्ये वदन्निदम । अन्तः कोपं च हासं च, गोभीभर्तुरवर्धयत् ॥१९८।। दुाय इति कृष्णेन, साम्बो निष्कासितः पुरात् । तस्मै प्रज्ञप्तिविद्यां तत् , प्रद्युम्नो गच्छते ददौ ॥१९९।। अन्यदा भानुकं निघ्नन् , प्रद्युम्नोऽभाषि भामया । रे वैरिन् ! कथमद्यापि, न पुराद् यासि साम्बवत् ? ॥२००॥ गच्छ स्थेयं स्मशानान्तस्तदैतव्यं त्वया पुनः । यदा साम्बं करे धृत्वा, पुरान्तः स्वयमानये ॥२०१॥ जगाम भामयेत्युक्तः, स्मशानं रुक्मिणीसुतः। मिलितस्तत्र साम्बोऽपि, स्वेच्छाचरणकौतुकी ॥२०२।।
१. मे, शाठ्यं क्वचन दर्शय पाता० ॥ २. तच्छाठ्यदर्शनायाथ, विष्णुराभीररूपभाक् । स्वसदृपया जाम्बवत्या साम्बान्तिके स्थितः ॥१९३॥ इतिरूपः श्लोकः पाता० ॥
15
D:\maha-k.pm5\2nd proof