________________
[३५१
त्रयोदशः सर्गः]
अथास्मिन् रुक्मिणीदूते, रुक्मिणेति निराकृते । प्रद्युम्न-साम्बौ चाण्डालरूपौ भोजकटं गतौ ॥१८०।। तत्र रुक्मिणमुत्सङ्गे, वैदर्भी दधतं सुताम् । पर्यप्रीणयतामेती, मधुरस्वरगीतिभिः ॥१८१॥ तंत्र च स्तम्भमुन्मूल्य, कोपात् कोऽपि द्विपो भ्रमन् । बली विलोडयामास, वासवेभनिभः प्रजाः ॥१८२।। वीक्ष्य द्विपं नृपः प्राह, य एनं कुरुते वशे । मुदे हृदीप्सितं तस्मै, यच्छाम्हयमसंशयम् ॥१८३।। गीतेन दन्तिनी प्रीते, चण्डालाभ्यां वशीकृते । हृष्टस्तदाऽऽह रुक्मी तौ, याच्यतां हृदयेप्सितम् ॥१८४।। अथान्नसिद्धये भूपात् , वैदर्भी तौ ययाचतुः । तदिमौ रुक्मिणा कोपात् , पुरादपि बहिष्कृतौ ॥१८५।। प्रद्युम्नोऽथ ययौ व्योम्ना, निशि रुक्मिसुतान्तिके । चण्डालादिचरित्रं च, स्वमेतस्यै न्यवेदयत् ॥१८६।। प्रद्युम्नोऽयमिति ज्ञात्वा, तां हृष्टामनुरागिणीम् । पाणौ जग्राह गान्धर्वविवाहेन हरेः सुतः ॥१८७।। रमयित्वा निशि स्वैरं, प्रद्युम्नेन्दौ गते सति । प्रातः सा मीलयामास, निद्रया नेत्रकैरवम् ॥१८८॥ विवाहितामिवालोक्य, तामपृच्छत् प्रगे नृपः । न किञ्चिदप्युवाचासौ, रुक्मी प्रकुपितस्ततः ॥१८९।। तावेवाहूय चण्डालौ, दत्त्वा तामन्वतप्यत । मत्वा प्रद्युम्न-साम्बौ तौ, तदवाप मुदं पुनः ॥१९०।।
15
१. कटे ग खंता० ॥ २. इतश्च स्तम्भमुन्मूल्य, करी कोऽपि स्फुरन् पुरे । इतिरूपं पूर्वार्धं पाता० ॥ ३. अथ गीतिगिरा दन्ती, चण्डालाभ्यां वशीकृतः पाता० ॥ ४. °सुतां प्रति पाता० ।। ५. °तस्या अचीकथत् पाता० ॥ ६. उपयेमे स गान्ध° पाता० सं० ।। ७. विलस्य तां निशि स्वेच्छं, प्रद्यु' पाता० ॥
D:\maha-k.pm5\2nd proof