________________
5
10
15
20
३५० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् दत्त्वा हारममुं यां त्वं, रमयिष्यसि तत्सुतः । अद्भुतो भवितेत्युक्त्वा, दत्त्वा हारं ययौ सुरः ॥ १६९॥ प्रज्ञप्त्या तदथ ज्ञात्वा, प्रद्युम्नः प्राह रुक्मिणीम् । आत्मतुल्यं सुतं मातस्तव यच्छाम्यहं पुनः ॥१७०|| रुक्मिणी प्राह तुष्टाऽस्मि, त्वयैकेन क्षमोऽसि चेत् । जाम्बवत्याः सपत्न्या मे, तद् यच्छात्मसमं सुतम् ॥ १७१ ॥ कृतभामाकृतिं जाम्बवतीं तद् रुक्मिणीसुतः । जनार्दनं प्रति प्रैषीद्, भामावासकवासरे ॥१७२॥ असत्यसत्ययाऽक्रीडद्, दत्त्वा हारं हरिस्तया । महाशुक्राच्च्युतं साऽपि, कैटभं गर्भगं दधौ ॥१७३॥ तस्यामथ प्रयातायां, सत्यभामा समाययौ । कयाऽपि च्छलितोऽस्मीति, सहाक्रीडत् तया हरिः ॥१७४॥ किञ्चिद्भीतोऽथ तन्मत्वा, विष्णुः प्रद्युम्नचेष्टितम् । भीरुरस्याः सुतो भावी, निश्चिकायेति चेतसि ॥१७५॥ अथ पूर्णेर्दिनैर्जाम्बवत्याः साम्बः सुतोऽभवत् । प्रद्युम्नस्य प्रियः पर्वजन्मतोऽपि हि बान्धवः ॥ १७६॥ भामाया भीरुको नाम, सूनुर्जातः सदाभयः । जज्ञिरे हरिपत्नीनामन्यासामपि सूनवः ॥१७७॥ रुक्मिण्या प्रेषितोऽन्येद्युश्च भोजकटे पुरे । वैदर्भी रुक्मिणः पुत्र, प्रद्युम्नार्थमयाचत ॥१७८॥ रुक्मी वैरं स्मरन् प्राच्यमूचे तं कोपनश्चरम् । वरं म्लेच्छाय यच्छामि, सुतां न तु हरेः कुले ॥ १७९॥
१. त्वं सम्भोक्षयसे हा
हारं मुक्त्वेत्यगात् सुरः ॥ १६९॥ इति पाता० ॥ २. ॰कदायिनम् पाता० ॥ ३. क्रच्युतं पाता० ॥ ४. अन्यास्वपि हरिस्त्रीषु सुता जाता महाभुजाः इतिरूपमुत्तरार्धं पाता० ॥ ५. कटे गतः । प्रद्युम्नाय ययाचे स वैदर्भी रुक्मिणः सुताम् इतिरूपः श्लोकः पाता० ॥
D:\maha-k.pm5\ 2nd proof