________________
10
त्रयोदशः सर्गः]
[३४९ स्तनयोरुज्ज्वलं प्रीत्या, साञ्जनं नेत्रयोः पयः । मेने मूनि पतद्गङ्गा, यमी स्नानं नमन्नसौ ॥१५७॥ न ज्ञाप्योऽहं पितुर्यावच्चित्रं किञ्चन दर्शये । इत्युक्त्वा मातरं मायी, रथे न्यस्य चचाल सः ॥१५८।। हरेऽहं जीवत: कान्तां, हरेर्दंष्ट्रां हरेरिव । स इत्याख्यान् जने शङ्ख, दध्मौ दुर्धरविक्रमः ॥१५९।। मुमूर्षुः कोऽत्र मूर्योऽयं ?, वदन्निति बलान्वितः । कोपी गोपीधवो धन्व, विधुन्वन्नभ्यधावत ॥१६०॥ कैशवः शैशवे तिष्ठन् , भक्त्वा कृष्णचमूरमूः । चिरान्निरायुधं चक्रे, वैकुण्ठं कुण्ठितोद्यमम् ॥१६१।। तदाऽऽगतं हरिं प्रीतिभारदो नारदोऽवदत् । मा विषादीरसौ युद्धं, विधत्ते रुक्मिणीसुतः ॥१६२।। श्रुत्वेति सप्रमोदस्य, गोविन्दस्य पदाब्जयोः । प्रद्युम्नो न्यपतत् कुर्वन्नश्रुमुक्ताफलार्चनम् ॥१६३।। प्रविवेश गतावेशः, केशवः सबलः पुरीम् । प्रद्युम्न-रुक्मिणीरोचमानो मानधनाग्रणीः ॥१६४।। प्रद्युम्नहृतमुक्तां तां, दुर्योधननृपात्मजाम् । पर्यणैषीत् ततः सत्यातनुभूर्भानुकाभिधः ॥१६५।। रौक्मिणेयविभूत्याऽथ, भामां दुर्मनसं हरिः । अपृच्छत् किं विषण्णाऽसि, पूरये किं तवेहितम् ? ॥१६६।। भामा प्राह मयि प्रीतो, यदि देव ! प्रयच्छ तत् । प्रद्युम्नमिव सद्युम्नं, नन्दनं चित्तनन्दनम् ॥१६७।। प्रत्यक्षीकृत्य तपसा, गीर्वाणं नैगमेषिणम् ।
हरिर्ययाचे भामायां, प्रद्युम्नप्रतिमं सुतम् ॥१६८|| १. गत्य ह° खंता० पाता० ॥ २. पपात पुरतोऽभीतः, प्रद्युम्नो मन्मथद्युतिः इतिरूपमुत्तरार्ध पाता० ॥ ३. तां, कन्यां पर्यणयत् ततः । दुर्योधनसुतां भामानन्दनो भानुकाभिधः इत्येवंरूपः श्लोकः पाता० ॥
20
D:\maha-k.pm5\2nd proof