________________
३४८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अशनं व्यसनं वेषो, विषमाभरणं रणम् । भवनं च वनं जातं, विना वत्सेन मेऽधुना ॥१४४।। मुने ! प्रसीद तद् ब्रूहि, कदा भावी स वासरः । यत्र पुत्रो ममोत्सङ्गसङ्गमङ्कीकरिष्यति ? ॥१४५।। मुनिरूचे क्षुधार्तोऽहं, तत् किञ्चिद् देहि भोजनम् । कथयामि यथा सुस्थस्त्वत्पुत्रागमवासरम् ॥१४६।। अथाऽऽह रुक्मिणी कृष्णमोदकाः सन्ति नापरम् । ते तु नान्यस्य जीर्यन्ते, तन्मुने ! किं ददामि ते ? ॥१४७।। किञ्चिन्मे दुर्जर नेति, जल्पते साधवेऽथ सा । एकैकं मोदकं प्रादादाद् कृत्स्नान् क्रमादसौ ॥१४८॥ इतोऽपि सत्यभामानुयुक्ताः पटिलकाभृतः । रुक्मिणीमेत्य विजितान् , दास्यः केशान् ययाचिरे ॥१४९॥ भृत्वा पटलिकास्तासामेव केशैः स कृष्णभूः । स्मितस्ताः प्रेषयामास, मण्डितस्वामिनीसमाः ।।१५०।। ताः प्रेक्ष्य कुपिता सत्या, प्रैषीज्झगिति नापितान् । कुट्टितास्ते कुमारेण, रुक्मिणीकुन्तलार्थिनः ॥१५१।। अथ भामा सभामेत्य, कोपना प्राह केशवम् । प्रयच्छ रुक्मिणीकेशान् , यदभूः प्रतिभूरिह ॥१५२।। रामो दामोदरेणाथ, केशार्थं प्रेषितो ययौ । कृष्णीभूय तदा चास्थात् , कुमारो मातुरन्तिके ॥१५३॥ बलोऽवलोक्य तत् सर्वं, वलितो हृदि लज्जितः । मां प्रेष्य त्वमगास्तत्र, कृष्णमित्याह कोपतः ॥१५४। श्रुत्वेति हलिनो वाचं, सत्यभामाऽतिकोपना । सर्वे कपटिनो यूयमित्युक्त्वाऽऽत्मगृहं गता ॥१५५।। प्रद्युम्नो नारदेनासौ, रुक्मिण्यै कथितस्ततः ।
तदा स्वं रूपमास्थाय, स्वजनन्यै नमोऽकरोत् ॥१५६॥ १. दादादत् कृ खंता० ॥ २. कुण्टिता खंता० ॥
20
D:\maha-k.pm5\2nd proof