________________
10
त्रयोदशः सर्गः]
[३४७ ध्यात्वेति रुक्मिणी प्राह, वात्सल्योत्फुल्लया गिरा । बालर्षे ब्रूहि कार्येण, केनेदानीं त्वमागतः ? ॥१३१।। मुनिः प्राह क्षुधात्र्तोऽहं, षोडशाब्दान्युपोषितः । पीतं मातुरपि स्तन्यं, न मया जन्मतोऽपि यत् ॥१३२।। इदानीं त्वामुपायातं, तन्मां कारय पारणम् । अथोचे रुक्मिणी हर्ष-विषादाकुलमानसा ॥१३३॥ धन्यं मन्येऽहमात्मानं, मुने ! त्वदर्शनाञ्चितम् । धिक्करोमि तु सत्पात्रदानपुण्येन वञ्चितम् ॥१३४।। ब्रषे विषण्णा किं नाम, त्वमित्युक्तेऽथ साधना । रुक्मिण्युवाच नोद्वेगादद्य किञ्चिदुपस्कृतम् ॥१३५।। विषादहेतुमेतेन, पृष्टा प्रोवाच सा पुनः । जातमात्रोऽपि पुत्रो मे, हृतः केनापि पापिना ॥१३६।। तत्सङ्गमार्थमाराद्धा, सुचिरं कुलदेवता । तथापि व्यर्थयत्नत्वादुपक्रान्तः शिरोबलिः ॥१३७|| गोत्रदेव्यापि तुष्टाऽथ, सहसादाह सा स्वयम् । वत्से ! धत्से मतिं कस्मात् , कर्म निर्मातुमीदृशम् ? ॥१३८॥ अयं ते रुचिराकारः, सहकार: करिष्यति । अकाले दशितोद्दामप्रसूनः सूनुसङ्गमम् ॥१३९।। इत्याशातन्तुसन्तानबन्धसंरुद्धजीविता । षोडशागमयं वत्सवत्सलाऽपि हि वत्सरान् ॥१४०॥ तदयं मदयन्नुच्चैः, कोकिलांश्चूतपादपः । पुष्पितो मन्दभाग्याया, न पुनर्मे मनोरथः ॥१४१॥ कुर्वेऽहं सर्वथा तासां, गवामप्यन्वहं स्पृहाम् । धयन्त्यकुण्ठितात्कण्ठं, यासां स्तन्यं स्तनन्धयाः ॥१४२।। किं चन्दनेन ? पीयूषबिन्दुना किं ? किमिन्दुना ? ।
अङ्गजाङ्गपरिष्वङ्गपात्रं गात्रं भवेद् यदि ॥१४३।। १. गमः खंता० सं० ॥
20
25
D:\maha-k.pm5\2nd proof