________________
5
10
151
20
३४६]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सूनुः सम्प्रती भामाया, भानुकः परिणेष्यति । ततस्त्वज्जननीकेशान्, सा सपत्नी ग्रहीष्यति ॥ ११९॥ श्रुत्वेति द्वारिकामागात्, कृष्णासूनुः सनारदः । तूर्णं विमानमारुह्य, क्लृप्तं प्रज्ञप्तिविद्यया ॥१२०॥ विमाने नारदं मुक्त्वा, स्वयमुत्तीर्य कृष्णभूः । तत्रैव भानुकोद्वाह्यां, हृत्वा चिक्षेप कन्यकाम् ॥१२१॥ निस्तृणा - ऽम्बुं हयीभूय, मर्कटीभूय निष्फलाम् । स सत्यावाटिकां कृत्वा, जातस्तुरगविक्रयी ॥१२२॥ मूल्येनाहं ग्रहीष्यामि, पश्याम्यारुह्य वाजिनम् । जल्पते भानुकायेति, स तुरङ्गममार्पयत् ॥१२३॥ आरूढोऽथ हयेनायमनायि भुवि भानुकः । विपक्वफलवद् वातावधूतद्रुमशाखया ॥१२४॥
द्विजीभूय भामायाः, कुब्जां दासीमृजुं व्यधात् । प्रीतयाऽपि तयाऽदर्शि, भामायै कपटद्विजः ॥१२५॥ तमाह भामा कुरु मां, रुक्मिणीतोऽपि रूपिणीम् । सोऽप्यूचे मुण्डिता भूत्वा त्वं मषीमण्डिता भव ॥१२६॥ तत् कृत्वा तद्गिरा भामा, रूपाय प्रगुणाऽभवत् । क्षुधितस्य न मे विद्या, स्फुरतीत्याह तु द्विजः ॥१२७॥ भोक्तुं निवेशितः सर्वमन्नमाहृत्य घस्मरः । अतृप्त इव निर्यातः, कुपितः कपटद्विजः ॥ १२८ ॥ तद् बालसाधुवेषेण, रुक्मिण्याः सदनं ययौ । रुक्मिण्यां पीठहस्तायां निविष्टः कृष्णविष्टरे ॥१२९ ॥ एष कोऽपि न सामान्यो, मान्योऽयं दैवतैरपि । यदस्याविनयं सेहे, पीठाधिष्ठातृदेवता ॥१३०॥
१. °मारूढः, क्लृ° वता॰ ॥ २. विमाने भा° पाता० ॥ ३. भामादासीं ऋजूचक्रे, द्विजीभूयाऽथ कुब्जिकाम् इतिरूपं पूर्वार्धं पाता० ॥
D:\maha-k.pm5\ 2nd proof