________________
त्रयोदशः सर्गः ]
इति श्रुत्वा समुद्रोऽपि, सहाऽक्षोभ्यादिसोदरैः । सुतैश्च राम-कृष्णाद्यैस्तां सपुत्रामपूपुजत् ॥१०८॥ ददुर्यदूद्वहाः कुन्तीसुतेभ्यः स्वसुताः क्रमात् । लक्ष्मीवतीं वेगवत, सुभद्रां विजयां रतिम् ॥१०९॥ §§ इतः प्रद्युम्नमालोक्य, कलावन्तं सुयौवनम् ।
ऊचे कनकमाला सा, मदनज्वरजर्जरा ॥ ११०॥ शंवरेण पथि भ्रष्टः, प्राप्तस्त्वं नासि मे सुतः । तन्मां भज स्मरप्राय !, माऽन्यथा मद्वचः कृथाः ॥ १११ ॥ विद्ये प्रज्ञप्ति - गौर्यौ च गृहाण मम सन्निधौ । यथा मदीयपुत्रैस्त्वं, जातुचिन्न हि जीयसे ॥ ११२ ॥ श्रुत्वेति सोऽपि नाकृत्यं, करिष्यामीति निश्चयी । मत्वा तद्वाक्यमादाय, विद्ये धीमानसाधयत् ॥११३॥ माताऽसि पोषणाद् विद्यादानाच्च नियतं मम । इत्थं निषेधयामास, वृषस्यन्तीमिमामसौ ॥११४॥ तत् प्रद्युम्नः पुरोपान्ते, गतो वापीं कलम्बुकाम् । स्वनखैः स्वं विदार्याङ्ग, साऽपि कोलाहलं व्यधात् ॥११५॥ प्रद्युम्नेन कृतं सर्वमित्याचख्यौ सुतेषु सा । तेऽपि क्रुद्धा गता योद्धुं, प्रद्युम्नेन विनिर्जिताः ॥ ११६॥ धावंस्तत्पीडया जित्वा, शंवरोऽपि नभश्चरः । प्रद्युम्नेन निवेद्याऽथ, तत्कथां परितापितः ॥११७॥ प्राप्तोऽथ नारदमुनिः, प्रद्युम्नाय न्यवेदयत् । आदितः सकलां जन्म-वियोगादिकथाप्रथाम् ॥११८॥
[ ३४५
१. 'त्वा कुमारोऽपि, सहा खंता० ॥ २. संवरेण पथि भ्रष्टः, प्राप्तस्त्वं नासि मे सुतः । विप्रज्ञप्ति - गौर्याख्ये, गृहाण मम सन्निधौ ॥ १११ ॥ मन्यते मत्सता नाथ !, त्वमजेयबलस्ततः । भजस्व मां स्मरप्राय !, माऽन्यथा मद्वचः कृथाः ॥ ११२ ॥ इतिरूपं श्लोकयुगलं पाता० वर्तते ॥ ३ °ति चिन्तयन् पाता० ॥ ४. 'नात् त्वं नि° खंता० ॥ ५. रतं प्रार्थयमानां तां, प्रद्युम्नोऽथ न्यषेधयत् इतिरूपमुत्तरार्धं पाता० ॥ ६. ° न्ते, वापीं कलम्बुकां गतः पाता० ॥ ७. गतस्तत्पीडया धावन् शंवरो पाता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20