________________
5
10
15
20
३४४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् धर्मश्रीनामिकार्यायाः, श्राविका साऽपि साधुना । श्राद्धः साधर्मिकत्वेनान्वग्रहीद् गाङ्गिलोऽथ ताम् ॥९६॥ एकान्तरोपवासान् सा, द्वादशाब्दीं विधाय तत् । विपद्यानशनादेव, देवाधिपमहिष्यभूत् ॥९७॥ च्युत्वाऽसौ रुक्मिणी जाता, षोडशाब्दान्यसौ पुनः । मयूरचरितात् पुत्रविरहार्त्ता भविष्यति ॥ ९८ ॥ श्रुत्वेत्युत्पत्य वैताढ्ये, बालं तं वीक्ष्य नारदः । एत्य सर्वं तदावेद्य, रुक्मिणी - कृष्णयोर्यौ ॥ ९९ ॥ अन्ते षोडशवर्षाणां, सूनुसङ्गमशंसिना । जिनेशवचसा सुस्थावस्थातामथ दम्पती ॥ १००॥ $$ समुद्रस्य सभाभाजोऽन्येद्युः कुन्ती सहोदरा । सवधूकैः सुतैः सार्द्धं, पञ्चभिः समुपागता ॥१०१॥ अथाचित्वा नरेन्द्राय, किमेतदिति पृच्छते । कुन्ती यथातथं प्राह, किमकथ्यं सहोदरे ? ॥ १०२॥ राज्यं युधिष्ठिरे न्यस्य, पाण्डुभूपो व्यपद्यत । नकुलं सहदेवं च, मुक्त्वा माद्री तमन्वगात् ॥ १०३॥ प्रियौ युधिष्ठिराद् भीमादर्जुनादपि तन्मया । इमौ संवर्द्धितौ माद्रीपुत्राविन्दु - रविच्छवी ॥१०४॥ धार्तराष्ट्रेन दुष्टेन, द्यूते दुर्योधनेन तत् । हारयित्वा वयं राज्यं, वने प्रास्थापयिष्महि ॥ १०५ ॥ अपि द्रुपदपुत्रीयं, जिता द्यूते वधूटिका । दुर्योधनेन मुक्ता द्राक्, भीमभ्रूभङ्गभीरुणा ॥१०६॥
कालं कालमिव क्षिप्त्वा, श्रुत्वा वः किल जीवतः । हृष्टाऽहमागता किञ्च, द्रष्टुं तौ राम - केशवौ ॥१०७॥
१. तयाऽर्पिता क्वचिद् ग्रामे, गाङ्गिलश्रावकस्य तत् इतिरूपमुत्तरार्धं पाता० ॥
२. कालात् कालादिव ततः श्रु° पाता० ॥ ३. किञ्चिद् द्र खंता ॥
D:\maha-k.pm5\ 2nd proof