________________
त्रयोदशः सर्गः]
[३४३ लक्ष्मीवतीति तद्भार्या, कुङ्कमार्गौण पाणिना । कदाऽप्युपवने स्पृष्ट्वा, मयूराण्डमशोणयत् ॥८४॥ तमौज्झदन्यवन्माता, यावत् षोडश नाडिकाः । मेघवृष्ट्या ततौ धौतं, स्वीचकार स्वमण्डकम् ॥८५।। भूयो लक्ष्मीवती याता, वने बालं कलापिनम् । तं निनाय गृहे शोकातुरायामपि मातरि ॥८६॥ धृत्वा षोडश मासान् सा, सकृपा स्वजनोक्तिभिः । नीत्वा तत्र वने मातुरातुरायाः पुरोऽमुचत् ॥८७।। ब्राह्मण्या तत्प्रमादेन, बद्धं षोडशवार्षिकम् । कर्मेदं पुत्रविरहव्यथाप्रथितवेदनम् ॥८८॥ मुनि समाधिगुप्तं साऽन्यदा भिक्षार्थमागतम् । गृहात् पूत्कृत्य निष्काश्य, कपाटौ पिदधे द्रुतम् ॥८९॥ सप्तमेऽह्नि गलत्कुष्ठीभूय व्रतिजुगुप्सया । सा विषण्णाऽग्निना मृत्वा, भवान् भूरीन् किलाऽभ्रमत् ॥९०।। भृगुकच्छतटे रेवातीरेऽभूद्धीवरात्मजा । त्यक्ता पितृभ्यां दौर्गन्ध्यात् , काणाऽसौ दुर्भगाभिधा ॥९१॥ उद्यौवनाऽन्यदाऽपश्यत् , कायोत्सर्गस्थितं मुनिम् । सेयं समाधिगुप्ताख्यं, शीत? निभरे निशि ॥९२।। असौ स्फीतेन शीतेन, निशायां मा स्म बाध्यत । इति सामनाः साधुं, तृणैः प्रावृणुते स्म तम् ॥१३॥ ननाम सा मुनि प्रातर्धर्ममाख्यन्मुनिस्ततः । दृष्टोऽसि क्वचिदित्युक्तः, प्राग्भवानप्यचीकथत् ॥९४॥ साऽथ दुर्गन्धतां मत्वा, स्वस्मिन् मुनिजुगुप्सया ।
जातजातिस्मृतिः प्रीता, क्षमयामास तं मुनिम् ॥९५।। १. स्वकाण्ड° पाता० ॥ २. कर्म सत्पुत्रविरहव्यथावेद्यमिदं तदा इतिरूपमुत्तरार्धं पाता० ॥ ३. °न्मुनिः पुनः ॥ ४. र्गन्धितां खंता पाता० ॥
15
D:\maha-k.pm5\2nd proof