________________
३४२]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् चन्द्राभा प्राह को वादो ?, यत् पूज्याः पारदारिकाः ? । श्रुत्वेत्युक्तं नरेन्द्रेण, वध्या मे पारदारिकाः ॥७३॥ चन्द्राभाऽप्यवदत् पूज्यो, निश्चितं पारदारिकः । अत्रार्थे स्पष्टदृष्टान्तः, क्षोणीनाथस्त्वमेव मे ॥७४॥ आकर्येति महीपालस्त्रपालोऽभूदधोमुखः । प्राप्तो राजपथे नृत्यन्नितश्च कनकप्रभः ॥७५।। दुःखार्तं वीक्ष्य चन्द्राभा, स्ववियोगविसंस्थुलम् । अदीदृशद् दृशा बाष्परुद्धया मधवे धवम् ॥७६।। तां प्रत्यर्प्य विधायाऽथ, मधुबन्धुसुतं नृपम् । सकैटभो व्रतं भेजे, मुनेविमलवाहनात् ॥७७।। तीव्र तप्त्वा तपः साधुवैयावृत्यकराविमौ । जातावनशनाद् देवी, महाशुक्रे महद्धिकौ ॥७८॥ ज्योतिष्को धूमकेत्वाख्यो, मृत्वाऽभूत् कनकप्रभः । च्युत्वाऽभूत् तापसो मृत्वा, धूमकेतुरभूत् पुनः ॥७९।। महाशुक्रान्मधुश्च्युत्वा, रुक्मिण्यां सोऽप्यजायत । प्राग्वैरं स्त्रीकृते धूमकेतु-प्रद्युम्नयोरिदम् ॥८०।। सूनुः षोडशवर्षान्ते, रुक्मिण्याः स मिलिष्यति । विद्या विद्याधरेन्द्राणां, हृद्या हृदि विनोदयन् ॥८१॥ किं पुत्रविरह: स्वामिन् !, रुक्मिण्याः षोडशाब्दिकः ? ।
नारदेनेति पृष्टः श्रीजिनेशः पुनरादिशत् ॥८२।। [रुक्मिण्याः पुत्रवियोगकारणगर्भं पूर्वभवचरितम् ]
मण्डले मगधाभिख्ये, जम्बूद्वीपस्य भारते । लक्ष्मीग्रामाभिधे ग्रामे, सोमदेवोऽजनि द्विजः ॥८३।।
१. खार्ता वी खंता० ।। २. प्रतिबुद्धो वि पाता० ।। ३. श्लोकस्यास्य पूर्वार्धोत्तरार्धयोः खंता० पाता० पुस्तकयोविपर्यासो दृश्यते ॥ ४. सोमदेवोऽजनि ग्रामे, लक्ष्मीग्रामाभिधे द्विजः इतिरूपमुत्तरार्धं पाता० ॥
D:\maha-k.pm5\2nd proof