________________
10
त्रयोदशः सर्गः]
[३३९ अथाऽऽह भामा प्रथम, यत्पुत्रः परिणेष्यते । तस्यै च्छित्त्वा शिर:केशान् , द्वितीया स्वान् प्रदास्यति ॥३५।। निश्चित्येदं तदा सत्या, रुक्मिणी च सभान्तरे । तत् साक्षीचक्रतुः कृष्ण-राम-दुर्योधनादिकान् ॥३६।। दृष्टः स्वप्नेऽथ रुक्मिण्या, विशन्नास्ये सितो वृषः । तद्विचारं हरिर्व्याख्याद् , यद् भावी तेऽद्भुतः सुतः ॥३७॥ दासीमुखादिति श्रुत्वा, सत्याऽप्यागत्य कल्पितम् । आचख्यौ हरये स्वप्नं, यन्ममाऽऽस्ये गजोऽविशत् ॥३८॥ तं मत्वाऽपि हरिः स्वप्नं, कल्पितं जल्पितेङ्गितैः । मा भूदस्या विषादस्तद् , व्याख्यद् वरसुतोद्भवम् ॥३९॥ अथो महद्धिकः कोऽपि, महाशुक्राच्च्युतः सुरः । उदरे रुक्मिणीदेव्यास्तेजोरविरवातरत् ॥४०॥ अथ सत्याऽप्यधाद् गर्भमुदरं ववृधे च तत् । यथावस्थोदरैवस्थात् , पुण्यगर्भा तु रुक्मिणी ॥४१॥ कृष्णमेत्याऽन्यदा सत्या, प्राह सत्या न रुक्मिणी । उदरं मेदुरं नास्याः , पश्य गर्भं पुनर्मम ॥४२।। वदन्त्यामिदमेवास्यां, दासी कृष्णमवर्धयत् । पुत्रोऽभूद् देव ! रुक्मिण्या, रुक्मतुल्यतनुद्युतिः ॥४३।। वचस्तस्यास्तदाऽऽकर्ण्य, कर्णपीयूषमच्युतः । उत्थाय रुक्मिणीसौधं, प्रति प्रचलितो मुदा ॥४४॥ गच्छन्ती सदने खिन्ना, तया सत्याऽपि वार्तया । वर्त्मन्येव भयस्यूताऽसूत सा भानुकं सुतम् ॥४५॥ इतश्च रुक्मिणीसौधे, हरिः सिंहासने स्थितः । अपश्यत् पुत्रमानाय्य, विभाजितविभाकरम् ॥४६।। आनन्दाम्बुधिनिर्मग्नो, निजगाद जनार्दनः ।
प्रद्युम्न इति तं नाम्ना, धाम्नां सीमा सुतो हि सः ॥४७।। १. दं गता सत्या, खंता० ॥
20
25
D:\maha-k.pm5\2nd proof