________________
३३८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कृत्वाऽथ विरथं रामो, रुक्मिणं रणमूर्धनि । क्षिप्रं क्षुरप्रनिखून-केशं तमिदमभ्यधात् ॥२२॥ त्वं मत्कनिष्ठकान्ताया, रुक्मिण्याः सोदरो यतः । जीवन् मुक्तोऽसि तत् केशच्छेदच्छुटितमस्तकः ॥२३।। रुक्मी कृतशिरस्तुण्डमुण्डनः कुण्डिने पुरे ।
न जाम ह्रिया चक्रे, तत्र भोजकटं पुरम् ॥२४॥ ६६ इतश्च दर्शयामास, रुक्मिण्यै द्वारकां हरिः । न्यवेदयच्च पूरेषा, कृता श्रीदेन मत्कृते ॥२५।। सफलीकुरु हेलाभिरिहोपान्तावनीवनीः । लीलाशैल-सरो-वापी-सिन्धुबन्धुरिताः सदा ॥२६॥ अथाऽऽह रुक्मिणी स्वामिन्नहमेकाकिनी हृता । परिवारं ततो देहि, सत्यभामादिवन्मम ॥२७॥ कार्या तदधिकाऽसीति, प्रतिपद्य जनार्दनः । रक्मिणीममुचद् भामाधामान्तिकनिकेतने ॥२८।। परिणीयाथ गान्धर्वविवाहेन बलानुजः । क्षणवत् क्षणदां कृत्स्नामिमामरमयन्मुदा ।।२९।। अतिमुक्तमुनिः प्रापदन्यदा रुक्मिणीगृहम् । तन्मत्वा सत्यभामाऽपि, रभसा समुपागमत् ॥३०॥ भावी मम सुतो नो वा ?, रुक्मिण्येत्युदितो मुनिः । जनार्दनसमो भावीत्युक्त्वा तां स ययौ तदा ॥३१॥ अथाऽऽह रुक्मिणी भामा, कथितो मे सुतोऽमुना । तेन वादेन ते याते, हरिमन्योन्यकोपने ॥३२॥ अत्र तत्राऽऽगतो धैर्यधुर्यो दुर्योधनो नृपः । भामा तमाह जातो मे, सूनुर्वोढा सुतां तव ॥३३।। रुक्मिणी सत्यभामां च, प्राह दुर्योधनो नृपः ।
प्राग् भावी तनयो यस्यास्तस्यै देया सुता मया ॥३४॥ १. क्षुरप्रेण ततो लू° पाता० ॥ २. °दत्रुटि' पाता० ॥ ३. त्राययौ धै° खंता० ॥
20
D:\maha-k.pm5\2nd proof