________________
10
त्रयोदशः सर्गः]
[३३७ दूतेन रुक्मिणी रुक्मी, प्रार्थितोऽभिदधौ हसन् । शिशुपालाय देयाऽसौ, न तु गोकुलरक्षिणे ॥१०॥ इत्युक्त्वाऽस्मिन् गते दूते, रुक्मिणी कृष्णरागिणी । पितृष्वस्रा सहाऽऽलोच्य, न्ययुक्त हरये चरम् ॥११॥ माघे मासि सिताष्टम्यां, वने नागार्चनच्छलात् । मामभ्युपेयुषी हर्तुमागन्तव्यं त्वया रयात् ॥१२॥ वचः श्रुत्वेति रुक्मिण्याः, दूतात् प्रीतो जनार्दनः । आहूतः शिशुपालस्तु , रक्मिणा रुक्मिणीकृते ॥१३।। रामेण सह सङ्केतदिने गरुडकेतनः । आययौ कुण्डिनोद्याने, तत्राथ रथिना रथी ॥१४॥ इतोऽपि रुक्मिणी नागपूजाव्याजेन नि:सृता । पितृष्वस्राऽप्यनुमता, रथं कृष्णस्य शिश्रिये ॥१५॥ अथ स्वदोषमोषाय, सपूत्कारं पितृष्वसा । रुक्मिणेऽकथयज्जहे, रुक्मिणी हरिणा हठात् ॥१६।। पाञ्चजन्य-सुघोषाख्यौ, शङ्खावापूर्य निर्भरम् । हृत्वा च रुक्मिणी कृष्ण-रामावचलतां ततः ॥१७।। अपहारं स्वसुः श्रुत्वा, रुक्मी रोषारुणेक्षणः । शिशुपालान्वितोऽचालीत् , कृष्णस्यानुपदं तदा ॥१८॥ तस्थौ रामौऽथ युद्धाय, ययौ तूर्णं तु केशवः । रथेन रुक्मिणीनेत्रस्पर्धातरलवाजिना ॥१९॥ रामस्तदनु सङ्ग्रामकुशलो मुशलोद्धतः । ममन्थारिबलं शुण्डाचण्डो हृदमिव द्विपः ।।२०।। सह सेनासहस्रेण, शिशुपालः पलायत ।
राममालोक्य रुक्मी तु , युद्धैकश्रद्धया स्थितः ॥२१॥ १. माघमासे सिता खंता० । सिताष्टम्यामहं माघे, मासे नागार्चनच्छलात् । वनमेष्यामि मां हर्तु पाता० ॥ २. कृष्णस्य रथमारुहत् पाता० ॥ ३. तां हृत्वा रुक्मि' खंता० पाता० ॥ ४. ततः खंता० ॥ ५. तूर्णं जनार्दनः पाता० ॥ ६. °लायितः पाता० ॥
20
D:\maha-k.pm5\2nd proof