________________
5
10
15
20
त्रयोदशः सर्गः ॥
[ प्रद्युम्नकुमारचरितम् ]
ददन्मुदं दशार्हाणां, तस्यां हलियुतो हरिः । चिरं चिक्रीड सहितो, यादवैर्द्विड्लतादवैः ॥१॥ तदन्तर्नेमिनाथोऽपि, बाल्यं साफल्यमानयत् । त्रिज्ञानवानपि क्रीडारसैर्यदुमदप्रदः ||२|| आजन्म मन्मथजयी, निर्विकारमनाः क्रमात् । श्रीनेमिर्यौवनं प्राप, दशचापोन्नताकृतिः ॥३॥ पितृ-भ्रातृ-सुहृद्वगैः, प्रार्थ्यमानोऽप्यहर्निशम् । न मेने नेमिनाथस्तु, पाणिग्रहमहोत्सवम् ॥४॥ अन्येद्युः केलिवल्लीनां, नीरदो नारदो मुनिः । पर्यटन्नेत्य गोविन्दार्चितो भामागृहं ययौ ॥५॥
तत्रानभ्युत्थितायां तु, दर्पणालोककौतुकत् । क्रुद्धो दध्यौ ददाम्यस्याः, सापत्यमिति नारदः ||६||
अथ भीष्मकभूपालसुतायै कुण्डिने पुरे ।
रुक्मिण्यै रुक्मिसोदर्यै, व्याख्यात् कृष्णगुणान् मुनिः ॥७॥
तैस्याः कृष्णानुरक्ताया, रूपं चित्रपटस्थितम् । कृष्णाय दर्शयामास, नेत्रपात्रामृतं मुनिः ॥८॥
कृष्णस्तनुरक्तोऽथ, सत्कृत्य मुनिपुङ्गवम् । रुक्मिणे रुक्मिणीयाञ्चा - हेतोर्दूतं नियुक्तवान् ॥९॥
१. °यन् खंता० पाता० ॥ २. 'हर्दिवम् खंता० पाता० ।। ३. तस्यां कृष्णानुरक्तायां, रूपं पाता० ॥ ४. °थ, पूजयित्वा तु नारदम् पाता० ॥