________________
5
10
15
20
25
३४० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
ज्योतिष्कः पूर्ववैरेण, धूमकेतुस्तदा सुतम् । तं कृष्णाद् रुक्मिणीवेषो, हृत्वा वैताढ्यमभ्यगात् ॥४८॥ तं चतूरमणोद्याने, बालं टङ्कशिलोपरि । एष क्षुधातुरत्वेन, म्रियतामित्यमुञ्चत ॥४९॥ असावनपमृत्युस्तच्चरमाङ्गतया शिशुः । अबाधितोऽपतद् भूरिपर्णाकीर्णमहीतले ॥५०॥ गच्छतः स्वपुरं कालसंवरस्य पुरान्तरात् । विमानमस्खलत् प्रातस्तत्रैव व्योमचारिणः ॥५१॥ अथाधोदत्तदृष्टिस्तं दृष्ट्वा बालं रविच्छविम् । पत्न्यै कनकमालायै, पुत्र इत्यार्पयत् खगः ॥५२॥ अथाऽऽख्यन्मेघकूटाख्ये, खेचरः स्वपुरे गतः । गूढगर्भाऽधुनैवामुं, मत्पत्नी सुषुवे सुतम् ॥५३॥ पुत्रजन्मोत्सवादूर्ध्वं, संवरः सुदिने व्यधात् । तस्य प्रद्युम्न इत्याख्यां, दिक्प्रद्योतनतेजसः ॥५४॥ अथैत्याप्रच्छि रुक्मिण्या, श्रीगोविन्दः क्व नन्दनः ? | अधुनैवाग्रहीः पुत्रं, हरिरित्युत्तरं ददौ ॥५५॥ केनापि च्छलितोऽसीति भाषमाणाऽथ रुक्मिणी । पपात मूर्छिता भूमौ, लब्धसञ्ज्ञा रुरोद च ॥५६॥ यदुभिः पद्मवन्म्लानं, भास्वत्यस्मिन् गते सुते । कुमुद्वतीव भामा तु, मुदिता सपरिच्छदा ॥५७॥ आप्ताय नारदायाथ, किमेतदिति पृच्छते । आख्यत् सर्वं हरिर्दुःखी, शुद्धिं वेत्सीति चावदत् ॥५८॥ अथाऽऽह नारदो ज्ञानी, पुराऽऽसीदतिमुक्तकः । अधुना स गतो मुक्ति, न ज्ञानं भारतेऽस्ति तत् ॥५९॥ तदहं प्राग्विदेहेषु, पृष्ट्वा सीमन्धरं जिनम् । कथयिष्यामि ते सर्वमित्युक्त्वा नारदो ययौ ॥ ६०॥ १. 'त्यस्तङ्गते खंता० ॥
D:\maha-k.pm5\ 2nd proof