________________
द्वादशः सर्गः]
[३३३ किमेतदिति कालेन, पृष्टे सा भीरुरब्रवीत् । एष्यत्कालभयादस्यां, चितायां यदवोऽविशन् ॥२०४॥ मद्भ्राता तैः सहाविक्षदिह वेक्ष्याम्यहं ततः । चितां साऽविशदित्युक्त्वा, दध्यौ कालोऽपि कोपनः ॥२०५॥ ज्वलितानलदुर्गेऽस्मिन् , मद्भीता विविशुस्ततः ।। गत्वा तत्रापि हन्मीति, प्राविशन्मोहितश्चिताम् ॥२०६।। क्षणेन ज्वलिते कालकुमारे सैनिकैस्ततः । तन्मोहाचरितं सर्वं, गत्वा राज्ञे निवेदितम् ॥२०७॥ यदवः प्रययुः क्वापि, दूरमित्युदिते चरैः । वृद्धालोचेन तन्मेने, देवतामोहितं नृपः ॥२०८।। यादवानामथ पथि, व्रजतामतिमुक्तकः । चारणर्षिः समुद्रेण, पृष्टो राजैवमब्रवीत् ॥२०९।। द्वाविंशस्तीर्थकृन्नेमिर्भावी तव तनूद्भवः । राम-कृष्णौ द्विषो जिष्णू , बल-विष्णू भविष्यतः ॥२१०॥ तन्मा भैषीद्विषद्भ्यस्त्वमित्युदीर्य गते मुनौ । सुराष्ट्रामण्डलं प्राप, समुद्रविजयो नृपः ॥२११॥ आवासेषु प्रदत्तेषु , रैवतात् प्रत्यगुत्तरे । सत्याऽसूत सुतौ तत्र, भानु-भामरसञकौ ॥२१२।। तत् क्रोष्टुकिगिराऽभ्यर्च्य, हरिलहरिमालिनम् । तंत्राष्टमं तपस्तेपे, प्रत्यक्षः सुस्थितोऽभवत् ॥२१३।। पाञ्चजन्य-सुघोषाख्यौ, शङ्खौ सात्वत-कृष्णयोः । सुस्थितः प्राभृतीकृत्य, जगाद किमहं स्मृतः ? ॥२१४॥ कृष्णोऽवदत् पुराऽभूद् या, विष्णूनां द्वारका पुरी । छादिता सा त्वयाऽम्भोभिस्तां मह्यं प्रकटीकुरु ॥२१५।।
१. द्विषां जि° पाता० ॥ २. चक्रेऽष्टमं तपस्तेन, प्र. खंता० पाता० ॥ ३. द्वारिका खंता० ॥
D:\maha-k.pm5\2nd proof