________________
३३२]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्राणप्रियाविमौ बालौ, नार्पयिष्यामि सर्वथा । विरोधेऽस्मिन् जरासन्धो, न भव्यं भाणयिष्यति ॥१९१।। अथाऽऽह सोमकस्तस्मिन् , हते जामातरि प्रिये । त्रिखण्डक्ष्मापातिः क्रुद्धस्तेन युक्तो न विग्रहः ।।१९२।। एतौ पटीमिव क्षिप्त्वा, यूयं जगति जीवत । क्रोधोद्धराज्जरासन्धगन्धसिन्धुरतोऽधुना ॥१९३।। अथावददमुं दीप्तः, कोपनो गोपनायकः । नास्माकं स प्रभुस्तस्य, राज्ञस्तु प्रभवो वयम् ॥१९४।। प्रियो यद्यस्य कंसोऽभत. तदायात रयादयम । यथाऽमुं तस्य जामातुर्मेलयामि समुत्सुकम् ॥१९५।। गच्छ रे ! मत्सरे बाढं, त्वमस्मान् मा स्म रोपय । मास्म भूः स्वविभोर्मृत्युपथप्रस्थानडिण्डिमः ॥१९६।। इत्युक्तो हरिणा सोमः, समुद्रेणाप्युपेक्षितः । तदाऽऽख्यद् द्विगुणं गत्वा, जरासन्धमहीभुजे ॥१९७।। अथ क्रुद्धे जरासन्धे, विरोधिवधसन्धया । प्रयाणकरोत् काल, इव कालकुमारकः ॥१९८॥ इतो योद्धं समुद्रेण, पृष्टः क्रोष्टकिरभ्यधात् । प्रतीची प्रति पाथोधिकच्छे गच्छत सम्प्रति ॥१९९।। सत्या सूते सूतौ यत्र, तत्र स्थाने कते हरिः । जरासन्धवधाद् भावी, भरतार्द्धधराधवः ॥२००।। सहोग्रसेनभूपेन, श्रुत्वेदं यादवाग्रणीः । मुमोच मथुरामेकादशकोटिकुलान्वितः ॥२०१॥ नीत्वा सूर्यपुरात् सप्त, कुलकोटीरपि द्रुतम् । मध्येविन्ध्यं ययौ पृष्ठे, प्राप्त कालोऽप्यदूरतः ॥२०२।। कृष्णसान्निध्यदेव्यस्तच्चितां पथि विचक्रिरे ।
एकामेकाकिनी पार्श्वे, रुदती सुदतीं पुनः ॥२०३॥ १. रपि प्रभुम् खंता० ॥ २. देवास्तच्चितां पाता० । देव्यस्तु , चितां खंता० ॥
20
D:\maha-k.pm5\2nd proof