SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः ] यदवोऽथ दवोदर्ग्रमहसः सहसा ययुः । सदनं वसुदेवस्य, समुद्रविजयादयः ॥ १७९ ॥ चुम्बन्तं लालयन्तं च, राम-दामोदरौ मुदा । किमेतदिति पप्रच्छ, वसुदेवं धराधवः ॥ १८०॥ देवकीदयितेनाथ, कथितेऽस्मिन् कथानके । स्वाङ्केऽधिरोप्य तौ धीरौ, राजा चिरमलालयत् ॥१८१॥ साकं तदुग्रसेनेन, काराकृष्टेन भूभुजा । कंसाय यमुनानद्यां, समुद्राद्या जलं ददुः ॥१८२॥ हते कंसाहिते पित्रा, देयं पत्युर्जलं मया । इति जीवयशाः सन्धां, जरासन्धात्मजा व्यधात् ॥१८३॥ मथुरायामथो राम-कृष्णानुज्ञावशंवदः । उग्रसेनं धराधीशं, समुद्रविजयो व्यधात् ॥१८४॥ मुरारिरुग्रसेनेन, दत्तां पर्यणयत् ततः । सत्यभामां प्रभोद्दामां, क्रोष्टुकिप्रथिते दिने ॥१८५॥ ज्ञात्वा तं कंसवृत्तान्तमथ जीवयशोमुखात् । क्रोधबन्धाज्जरासन्धः, सन्धां यदुवधे व्यधात् ॥१८६॥ दूत्येन सोमकक्ष्मापः, समुद्रविजयं प्रति । जरासन्धनिदेशेन, जगाम मथुरापुरीम् ॥ १८७॥ यदुराजं सभाभाजं, निजगाद स धीरधीः । कंसद्विषौ स ते स्वामी, याचते राम- केशवौ ॥१८८॥ तौ समर्प्य भवन्तोऽपि विभवन्तु विभूतिभिः । उच्छित्तिरनयोर्युक्ता, निजप्राभवरोगयोः ॥१८९॥ अथाऽवदत्, क्रुधाकम्प्रः, सोमकं प्रति भूपतिः । आभ्यां भ्रूणवधात् पापी, निन्ये कंसो यमौकसि ॥१९०॥ [ ३३१ १. 'ग्रसाहसा सहसा ययुः पाता० ॥ २ ° दरौ तदा खंता० ॥ ३. 'राधिपः खंता० पाता० ।। ४. तौ बालौ, रा° खंता० ॥ ५. नद्या, स° खंता० । ६. दौत्ये° खंता० ॥ ७ प्रति खंता० । “थुरां पुरीम् पाता० ॥ ८. पापो, निन्ये खंता० । पापान्निन्ये पाता० ॥ D:\maha-k.pm5 \ 2nd proof 5 10 15 20
SR No.009540
Book TitleDharmabhyudaya Mahakavyam
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages515
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy