________________
३३०]
10
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् यः कोऽपि धैर्यधुर्योऽस्ति, पात्रं कोपस्य कोऽपि यः । स मे दोर्दण्डकण्डूतिं, युधा खण्डयतु क्षणात् ॥१६६।। असहिष्णुरथो विष्णुश्चाणूरस्येति गर्जितम् । उत्तीर्य मञ्चात् पञ्चास्यध्वनिर्भुजमदिध्वनत् ॥१६७।। भुजास्फोटध्वनिर्विष्णुर्वर्द्धमानोऽथ दुर्धरः । कीर्तिविस्तृतये व्योमभाण्डे भङ्गमिव व्यधात् ॥१६८।। तं मत्वाऽथ भुजास्फोटध्वनिनैवात्मघातकम् । एककालयुधे कंसः, प्रेरयामास मौष्टिकम् ॥१६९।। अथ दृष्ट्वा तमुत्कृष्टमुष्टिकं मौष्टिकं हली । अधावत क्रुधा विष्णुपराभवभिया विभीः ॥१७०।। स्थिराया व्यर्थतां नाम, नयन्तः क्रमसङ्क्रमैः । अथो युयुधिरे विष्णु-चाणूर-बल-मौष्टिकाः ॥१७१॥ कंसे यियासौ कीनाशपुराय प्रहितौ पुरः । तौ मल्लावथ शौरिभ्यां, मार्गालोकपराविव ॥१७२॥ इमौ हत हत क्षिप्रं, सह नन्देन गोमिना । वदन्तमिति भी-कोपद्विगुणस्फुरिताधरम् ॥१७३।। फालाक्रान्तमहामञ्चः, सञ्चरन् पञ्चवक्त्रवत् । केशेषु केशवः कंसं, कृष्ट्वाऽलूलुठदग्रतः ॥१७४॥ युग्मम् ॥ अथ कृष्णं प्रति क्रुद्धा, कंसगृह्या महीभुजः । मञ्चस्तम्भायुघेनोच्चैर्बलेन दलिता बलात् ॥१७५।। कृष्णोऽपि रोपितपदः, शिरस्युरसि च क्षणात् । कंसं क्रोशन्तमत्यन्तमजघातं जघान् तम् ॥१७६।। भयस्पृशाऽधिकं सेना, कंसेनाऽऽनायि या पुरा । जरासन्धेरिता साऽपि, योद्धं क्रोधादधावत ॥१७७।। तासु सन्नह्यमानासु , वाहिनीष्वर्धचक्रिणः ।
त्रासं दिदेश सन्नद्धः, समुद्रविजयः स्वयम् ॥१७८।। १. युवा ख° खंतासं० पाता० ॥ २. कालं युधि कंसः, पाता० ॥
20
D:\maha-k.pm5\2nd proof