________________
10
द्वादशः सर्गः]
[३२९ हरिः शरारुमारुह्य, तं भुजङ्गं महाभुजः । क्रीडन्नुडुपवन्नीरे, सविभ्रममबिभ्रमत् ॥१५३।। मृतकल्पमनल्पौजास्तं मुक्त्वा निर्ययौ हरिः । तदेत्य समदाटोपै!पैस्तौ बान्धवौ वृतौ ॥१५४।। ततः प्रचलितौ राम-गोविन्दौ मथुरां प्रति । गोपालकैः सहाऽभूतां, पुरगोपुरगोचरौ ॥१५५।। कंसादिष्टावथ द्विष्टाविभौ यमनिभौ क्रुधा । प्रधावितौ हतौ ताभ्यां, तौ पद्मोत्तर-चम्पकौ ॥१५६।। अरिष्टादिद्विषौ नन्दनन्दनौ ननु ताविमौ । दर्श्यमानौ मिथो रागसागरैरिति नागरैः ॥१५७।। गत्वा मल्लभटीभूमि, सह वल्लभवल्लवैः । निषेदतुः क्वचिन्मञ्चे, तौ समुत्सार्य तज्जनम् ॥१५८॥ युग्मम् ।। ततश्च वामो रामेण, रौद्रमूर्तिधरः पुरः । सैष मञ्चशिखोत्तंसः, कंसः कृष्णस्य दर्शितः ॥१५९।। सकौतुकप्रपञ्चेषु , मञ्चेषु विहितासनाः । कंसक्रूराशयज्ञानसावधानीभवद्भटाः ॥१६०॥ समुद्रविजयप्रष्ठा, जितज्वलनतेजसः । दशापि च दशास्तेि, गोविन्दाय निवेदितः ॥१६१॥ युग्मम् ।। विभाविभासुरच्छायौ, सुरप्रायौ नु काविमौ ? । चिन्तयद्भिरिति क्षमापैरेक्ष्येतां तौ प्रतिक्षणम् ॥१६२।। वधे सिन्धुरयोर्लोकै पिते कुपितस्तदा । सशल्य इव कंसोऽभूद् , घूर्णमानेक्षणः क्षणम् ॥१६३।। अयुध्यन्ताधिकं मल्लोत्तंसाः कंसाज्ञया ततः । अथोदतिष्ठत क्रूरश्चाणूरः कंससञ्जया ॥१६४।। करास्फोटस्फुटाटोपः, स्फूर्जन्नूर्जस्वलं ध्वनन् । उर्वीकृतभुजो भूमीभुजोऽधिक्षिप्य सोऽवदत् ॥१६५।। १. वो मुदा पाता० ।. २. °टस्फटा खंता० पाता० ।।
20
25
D:\maha-k.pm5\2nd proof