________________
३२८]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् बलस्तदलसां किञ्चित् , तां निरीक्ष्य रुषाऽवदत् । षड्बान्धववधाख्यानं, साक्षात्कर्तुं हरेः पुरः ॥१४०॥ आत्मानं मा स्म विस्मार्षीर्मदुक्तं न करोषि किम् ? । स्वाम्यादेशेऽप्युदासीना, दासी नाम क्वचिद् भवेत् ? ॥१४१।। वचेनामुना म्लानमवलोक्य बलो हरिम् । स्नानाय सममादाय, यमुनायास्तटे ययौ ॥१४२।। रामो हरिमथापृच्छदपच्छायोऽसि वत्स ! किम् । त्वं प्रभातप्रभाराशिव्याश्लिष्ट इव दीपकः ? ॥१४३।। तदेवं बलदेवं स, निजगाद सगद्गदम् । किङ्करीति किमाक्षिप्ता, भ्रातर्माता मम त्वया ? ॥१४४।। अथैनं प्रथयन् सामलीला नीलाम्बरोऽवदत् । यशोदा जननी वत्स !, न ते नन्दो न ते पिता ॥१४५।। देवकी देवकक्ष्मापनन्दनी जननी तव । गोपूजाव्याजतोऽभ्येति, त्वां द्रष्टुं मासि मासि सा ॥१४६।। वसुदेवश्च देवेन्द्रप्रायरूप-पराक्रमः । पिता स तव तेनात्र, कंसत्रासादमुच्यथाः ॥१४७।। अहं च रोहिणीसूनुर्वैमात्रेयस्तवाग्रजः । तातेन स्वयमाहूय, त्वद्रक्षायै नियोजितः ॥१४८॥ कंसात् किं भीतिरित्युक्ते, कृष्णेनाख्यत् पुनर्बलः । अतिमुक्तमुनेरुक्ति, तथा बन्धुवधप्रथाम् ॥१४९॥ कृष्णस्तदा तदाकर्ण्य, क्रोधादनलवज्ज्वलन् । कंसध्वंसं प्रतिज्ञाय, स्नानाय यमुनां ययौ ॥१५०॥ दृष्ट्वाऽथ कालियः कृष्णमतिक्रोधादधावत । पश्यन्निवात्मनो मृत्यु , चूडारत्नप्रदीपवान् ॥१५१॥ किमेतदिति सम्भ्रान्ते, रामे वामेन पाणिना । धृत्वाऽसौ हरिणा घ्राणे, पद्मनालेन नस्तितः ॥१५२।।
D:\maha-k.pm5\2nd proof