________________
10
द्वादशः सर्गः]
[३२७ तत्रोवास निशां राम-केशवस्नेहमोहितः । मार्गे गच्छन्नसौ प्रातः, कृष्णमेकं सहाऽनयत् ॥१२७।। अथ लग्नं रथं मार्गेऽनाधृष्टौ मोक्षणाक्षमे । हेलया हरिरव्यग्रो, न्यग्रोधमुदमूलयत् ॥१२८।। इत्थं भुजालमालोक्य, तं पदाति तदाऽन्तिके । हृष्टोऽनाधृष्टिरुत्तीर्य, परिष्वज्य रथेऽनयत् ॥१२९॥ मथुरायामथानेकपृथ्वीनाथकुलाकुलाम् । धीरौ धनुःसभामेतौ, जग्मतुस्तिग्मतेजसौ ॥१३०।। अस्नापयन्नृपस्तोमवीक्षातप्तमथ क्षणात् । सत्यभामा चिरं चक्षुः, कृष्णलावण्यसागरे ॥१३१।। ग्रहणादेव चापस्याऽनाधृष्टौ पतिते ततः । भ्रष्टाङ्गभूषणे स्विन्ने, न यावदहसन् जनाः ॥१३२॥ तावन्मृदुलदोर्दण्डचण्डिमानमदीदृशत् । मदा सदसि गोविन्दस्तन्वन धन्वाधिरोपणम् ॥१३३॥ यग्मम || अनाधृष्टिरथागत्य, मुक्त्वा द्वारि रथे हरिम् । गत्वा पितुः सदस्याख्यन्मयाऽऽरोप्यत तद्धनुः ॥१३४॥ उक्तोऽथ वसुदेवेन, नश्य कंसेन हन्यसे । श्रुत्वेति स हरिं मुक्त्वा, व्रजेऽथ स्वपुरेऽव्रजत् ॥१३५।। चापमारोपयन्नन्दनन्दनः शब्द इत्यभूत् । कंसोऽपि हृदयारोपिशङ्काशङ्कुरजायत ॥१३६।। आहूय भूयसो भूपान् , मञ्चेषु मथुरापतिः । आदिशत् कलये मल्लान् , चापारोपोत्सवच्छलात् ॥१३७।। रामं जगाद गोविन्दः, श्रुत्वा मल्लरणोत्सवम् । द्रष्टुं मल्लभटीमावां, गच्छावः कौतुकं हि मे ॥१३८॥ तं प्रति प्रतिपद्येति, यशोदामवदद् बलः ।
आवयोर्मक्षु पानीयं, स्नानीयं प्रगुणीकुरु ॥१३९।। १. °मग्रीष्मात° पाता० ॥ २. द्वारि हरिं रथे । गत्वा खंता० पाता० ।।
15
20
25
D:\maha-k.pm5\2nd proof