________________
5
10
151
20
३२६ ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् आदिश्याऽथ श्रमायाऽसौ, मल्लौ चाणूर - मौष्टिकौ । अरिष्टादीन् वनेऽमुञ्चदरातिं ज्ञातुमात्मनः ॥११५॥ शरद्धनाधनध्वानो, महोक्षो गाः क्षिपन् मुहुः । भञ्जन् भाण्डभरं तुङ्गशृङ्गो गोपान् लुलोप सः ॥११६॥ राम ! त्रायस्व गोविन्द !, त्रायस्वेति व्रजे गिरः । श्रुत्वैव शौरिजन्मानौ, मानाध्मातावधावताम् ॥११७॥ अथोक्षाणं क्रुधावन्तं, धावन्तं वीक्ष्य केशवः । करावलितशृङ्गाग्रभग्नग्रीवं जघान तम् ॥ ११८ ॥ तस्मिन् काल इव क्रूरे, नीते कालनिकेतनम् । वल्लवाः पूज्यामासुर्जनार्दनभुजौ मुदा ॥११९॥ प्राप्तः कंसकिशोरोऽथ, केशी क्रीडति केशवे । प्रक्रान्तवल्लवीनाशः, कीनाश इव दुःसहः ॥ १२०॥ कृष्णेन सोऽपि निर्भिन्दन्, सुरभीः सुरभीषणः । कूर्परार्पणतो वक्त्रं, विदार्यामार्यत द्रुतम् ॥१२१॥ खर- मेषमुरुक्रोधखरमेष ततोऽन्यदा । कृतगोपभयारोपमाजघान जनार्दनः || १२२॥ अथायं मथुरानाथस्तन्माथप्रभवद्भयः । द्विषं निश्चेतुमानिन्ये, सदस्यर्चामिषाद्धनुः ॥१२३॥ अत्यद्भुतभुजः शार्ङ्ग, यः कोऽप्यारोपयिष्यति । देयाऽस्मै सत्यभामेयमिति चायमघोषयत् ॥१२४॥ महीभुजो भुजोष्मायमाणाः प्राणाधिकास्ततः । आगताः पर्यभूयन्त, नन्वनेनैव धन्वना ॥१२५॥ सूनुर्मदनवेगाया, वसुदेवात्मजो रथी । चापारोपार्थमुत्कण्ठाकुलो गोकुलमागमत् ॥१२६॥
१. श्रुत्वेति शौ° खंता० पाता० ॥ २. °षणाः खंता० पाता० । ३. ° पर्यसूच्यन्त, पाता० ॥ ४. 'नदेवाया, वता० ॥
D:\maha-k.pm5 \ 2nd proof