________________
द्वादशः सर्गः ]
[ ३२५
तत्र सिंहासनारूढः, सोऽयं स्वाङ्के जिनं दधौ । त्रिषष्ट्या त्वपरैः शक्रैः, स्नात्रं चक्रेऽच्युतदिभिः ॥१०२॥ अङ्के तदीशमीशानो, दधौ सिंहासनासनः । सौधर्मेन्द्रोऽकृत स्नात्रा - ऽऽरात्रिक- स्तवनादिकम् ॥१०३॥ प्रभोरप्सरसः पञ्च, धात्रीराधाय वासवः । कृत्वा नन्दीश्वरे यात्रां, मुदितः स्वपदं ययौ ॥१०४॥ सप्रभावं प्रभावन्तं, राकेन्दुमिव नन्दनम् । तमालोक्य समुद्रोऽभूदुन्मुद्रितमहोदयः ॥ १०५ ॥ दृष्टो रिष्टमणेर्नेमिर्मात्रा स्वप्नेऽत्र गर्भगे । अरिष्टनेमिरित्याख्यां, सूनोस्तद् विदधे पिता ॥ १०६ ॥ मथुरायामाथाऽऽतेने, नेमिजन्ममहोत्सवम् । दशार्हो दशमस्तेन, कंसस्तस्याऽऽययौ गृहम् ॥१०७॥ छिन्ननासापुटां वीक्ष्य, खेलन्तीं तत्र तां सुताम् । भीतः कंसोऽधिकं सोऽथ, स्मृत्वाऽनुजमुनेर्वचः ॥१०८॥ नैमित्तिकं स कंसस्तदपृच्छत् सदने गतः । स्त्रीगर्भः सप्तमः सोऽयं मुनिनोक्तो भवेन्न वा ? ॥१०९॥ ऊचे नैमित्तिकः साधुगिरि विपरियन्ति न । क्वाप्यस्ति हस्तिमल्लौजाः, स गर्भस्ते भयङ्करः ॥ ११० ॥ तमरिष्टाख्यमुक्षाणं, हयेशं केशिनं च तम् । खर- मेषौ च तौ मुञ्च, क्रमाद् वृन्दारके वने ||१११॥ अत्युग्रानपि तान् खेलन्, सहेलं यो हनिष्यति । हन्त ! हन्ता स ते सत्यं, निरर्गलभुजार्गलः ॥११२॥ पूजयेज्जननी यत् ते, शार्गं धन्व क्रमागतम् । आरोपयिष्यति पयःसितकीर्तिः स एव तत् ॥११३॥ कालियाहेर्दमयिता, चाणूरस्य विपादकः । हनिष्यति द्विपेन्द्रौ, ते, स पद्मोत्तर - चम्पकौ ॥११४॥
१. °ष्टाक्षमु° खंता० ॥ २. °षौ ततो मु° पाता० ॥ ३. 'ष्यति च यः, सित° पाता० ॥
D:\maha-k.pm5 \ 2nd proof
5
10
15
20
25