________________
३२४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् कृष्णः सदाऽपि मायूरपिच्छपूरविभूषणः । जगौ गोपालबालाभिः, सह गोपालगूर्जरीम् ॥८९।। वंशनादवशैर्नेत्र-गति-कान्तिजितैरिव । सोऽयं कुरङ्ग-मातङ्ग-भुजगैरनुगैर्बभौ ॥१०॥ राम-गोविन्दयोः क्रीडारसनिर्मग्नयोरिति ।
गोपयोर्जग्मुरेकाहवदेकादश वत्सराः ॥९१।। $इतश्च कार्तिके कृष्णद्वादश्यां त्वाष्ट्रगे विधौ ।
समुद्रविजयाख्यस्य, पत्न्यां शौर्यपुरेशितुः ॥९२॥ शिवायाः कुक्षिमध्यास्त, शङ्खजीवोऽपराजितात् । सा निशान्ते महास्वप्नांश्चतुर्दश ददर्श च ॥१३॥ गजोक्ष-सिंह-लक्ष्मी-स्रक्-चन्द्रा-ऽर्क-कलश-ध्वजाः । पद्माकर-विमाना-ऽब्धि-रत्नपुञ्जा-ऽग्नयस्तु ते ॥१४॥ नारकाणामपि स्वर्गजुषामिव तदा सुखम् । क्षणमासीत् प्रकाशश्च, चकास्ति स्म जगत्स्वपि ॥१५॥ पत्युरत्युत्सुका स्वप्नानाख्यद् देवी प्रबुध्य तान् । राज्ञा तदैव दैवज्ञोऽपृच्छ्यत क्रोष्टुकिः स्वयम् ॥९६।। स व्याचख्यौ सूतो भावी जिनो वां त्रिजगत्पतिः । श्रुत्वेति तावपि प्रीतौ, पीयूषस्नपिताविव ॥९७।। गर्भस्थितेन तेनाथ, स्वामिना नृपकामिनी । बभौ स्मितमुखाम्भोजा, हंसेनेव सरोजिनी ॥९८।। निशीथे सितपञ्चम्यां, श्रावणे त्वाष्ट्रगे विधौ । शङ्खध्वजं शिवाऽसूत, सुतं जीमूतमेचकम् ॥९९।। षट्पञ्चाशदथाऽऽगत्य, दिक्कुमार्यो यथाक्रमम् । शिवा-जिनेन्द्रयोश्चक्रुः, सूतिकर्माणि भक्तितः ॥१००।। पञ्चरूपो हरिः स्वर्गादथाऽऽगत्य यथाविधि । अतिपाण्डुकम्बलायां, शिलायां नीतवान् विभुम् ॥१०१॥
15
25
D:\maha-k.pm5\2nd proof