________________
द्वादशः सर्गः ]
तदाऽऽकर्ण्येति नन्दश्च यशोदा च समीयतुः । तौ धूलिधूसरं वीक्ष्य, प्रीतै बालं चुचुम्बतुः ॥७६॥ बद्धो यदुदरे दाम्ना, नाम्ना दामोदरस्ततः । ख्यातोऽयं गोकुले बालो, वल्लवीप्रीतिपल्लवी ॥७७॥ मत्वा शताङ्ग-शकुनि-पूतना-ऽर्जुनसङ्कथाम् । दध्यौ शौरिरमुं कंसो, ज्ञास्यत्येवंविधौजसा ॥७८॥ माऽपकार्षीत् किमप्यस्य, मत्वाऽपि क्रूरधीरसौ । अहं तदस्य रक्षायै, कञ्चिन्मुञ्चामि नन्दनम् ॥७९॥ तद् यथातथमाख्या, राममुद्दामविक्रमम् । सुतत्वेनार्पयामास, यशोदा-नन्दयोर्मुदा ||८०|| सहेलं खेलतस्तत्र, राम - दामोदरौ ततः । गोकुले गोमति व्योम्नि, सतारे शशि - सूर्यवत् ॥८१॥ आयुधेषु समग्रेषु श्रमं रामेण कारितः । प्रकृत्या विक्रमी कृष्णः, सपक्षाहिरिवाबभौ ॥८२॥ गोपस्त्रियः प्रियममुं, गूढोन्मुद्रितमन्मथाः । समालिङ्गन्ति चुम्बन्ति, बालव्यवहृतिच्छलात् ॥८३॥ साकूताभिरनाकूतः, खेल्यते गोपखेलनैः । स गोपीभिः पणीकृत्य, चुम्बना - ऽऽलिङ्गनादिकम् ||८४|| अस्फुटं कृष्ण कृष्णेति, जल्पन्त्यः प्रति तं मुहुः । पतन्ति मदिरोद्भूतमदव्याजेन गोपिकाः ॥८५॥ तं मध्येकृत्य नृत्यन्ति, गोप्यो मण्डलनर्तनैः । तत्र तालध्वजस्तालवाद्यं वितनुते मुदा ॥८६॥ एनं केनाप्युपायेन, काऽपि गोपी कदाचन । स्पृशन्ती निर्विकारैव, सेर्ष्यमन्याभिरीक्ष्यते ॥८७॥ तं वीक्ष्य विवशा गोप्यो, निमीलितविलोचनाः । पिण्डीकृत्योरसि रसात्, तरसैव न्यपीडयन् ॥८८॥ १. 'रोद्धूत' खंता० ॥
D:\maha-k.pm 5 \ 2nd proof
"
[ ३२३
5
10
15
20
25