________________
5
10
15
20
25
३२२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अमूमुचदमूं कंसो, देवक्या एव सन्निधौ । पुनर्जातेयमित्यन्तः, प्रमोदं प्राप साऽप्यथ ॥६३॥ स कृष्ण इति संहूतः, कृष्णाङ्गत्वेन गोमिभिः । वसुदेवकुलोत्तंसो, गोकुलान्तरवर्धत ॥६४॥
गते मासि सुतं द्रष्टुमुत्सुका देवकी ययौ । सह स्त्रीभिः प्रियं पृष्ट्वा, गोकुले गोऽर्चनच्छलात् ॥६५॥ मुदं दधौ यशोदाङ्कवर्तिनं निजनन्दनम् । श्रीवत्सलाञ्छितं स्निग्ध-श्याममालोक्य देवकी ||६६ || सदैव देवकी तत्र, गोपूजाव्याजतो ययौ । आविर्बभूव लोकेऽत्र, ततः प्रभृति गोव्रतम् ॥६७॥ वैरेण वसुदेवस्यान्यदा शकुनि - पूतने । विद्या तत्सुतं मत्वा निहन्तुं कृष्णमागते ||६८|| बभूवैका समारुह्य, शकटं कटुनादिनी । पूतना नूतनक्ष्वेडलिप्तं स्तनमपाययत् ॥६९॥ सान्निध्यं विदधानाभिर्देवताभिस्तदा मुदा । कृष्णस्य देहमाविश्य, हते तेनैनसैव ते ॥७०॥ एत्य नन्दोऽथ वीक्ष्येदें, खेदं मनसि धारयन् । यशोदां प्राह नैकाकी, बालो मोच्यः कदाचन ॥ ७१ ॥ तं पालयति सानन्दा, यशोदाऽथ स्वयं सदा । छलादुच्छृङ्खलो बालः, प्रयातीतस्ततः स तु ॥७२॥ दाम्नोदूखलबद्धेन, तस्य बद्ध्वाऽन्यदोदरम् । यशोदा तद्गतेर्भीता, गृहेऽगात् प्रतिवेशिनः ॥७३॥ तदा पितामहद्वेषादेत्य सूर्पकसूः शिशुम् । तं मध्ये पेष्टुमभितो, जगामार्जुनयुग्मताम् ॥७४॥
अनयोः कृष्णदेव्याऽथ, माथश्चक्रे महीरुहोः । ऊचे गोपैस्ततोऽभञ्जि, कृष्णेनार्जुनयोर्युगम् ॥७५॥
१. °त्सुतं ज्ञात्वा, पाता० ॥ २. 'दं, वृत्तं मन' पाता० ॥। ३. 'कभूः शि° पाता० ॥
D:\maha-k.pm5\ 2nd proof